________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीस्तम्भनपार्श्वदेवस्तोत्रम्
Acharya Shri Kailassagarsuri Gyanmandir
देव ! त्वं श्रितवत्सलः कलिमलप्रक्षालनप्रत्यलः सर्वापत्पददुर्यशः परभवाऽऽध्यति प्रभेदी यतः । तेनार्याः प्रणतास्त्वदेकशरणाः स्वामीशमात्मेशताम् तन्वन्तं श्रयिणामनन्त सुखदां पार्श्वप्रभो ! स्तम्भन ! ॥ ११ ॥ बुद्धस्त्वं स्वयमेव शङ्करमयो जिष्णुश्च सर्वात्मना
७३
लक्ष्यस्त्वं परमेष्ठ्यपीष्टपरमैश्वर्यात्मकस्त्वं यतः । तेनार्थित्वमितोऽर्थयेऽर्थद ! भवन्तं यन्मयि प्रापया,
ऽनन्तानन्दपदं यशोमयमिह श्रीस्तम्भन ! त्वं विभो ! ॥१२॥ किं लावण्यविशालकेलिलहरी किं ज्ञानशालास्थितिः
किं कारुण्यनिधिः सुधोज्ज्वलकलामालाकृतिः किं किल । सम्यग् ब्रह्मरसः किमुत्तममुदा साराकरः किं स्फुरन्
मूर्त्तिक्पथमागतेष्टफलदा क्व क्व प्रभो ! स्यान्न ते ॥ १३ ॥ एवं सद्यजयश्रिहर्षविनयश्रीसूरिपूज्योन्नता,
नन्तज्ञान सुदर्शनः स्तुतिपथं नीतः स नः स्तम्भनः । श्रीपार्श्वः स्वपदाब्जसेवन रसास्वादप्रदः स्ताद्यतः सिद्धिश्रीपदधर्महंसलसनं स्याच्चेत सीष्टोदयम् ॥ १४ ॥
इति श्रीस्तम्भनपार्श्वदेवस्तोत्रम् ॥ ५० ॥
श्रीस्तम्भनपार्श्वदेवस्तोत्रम् ॥ ५१ ॥
यः सार्वज्ञमतव्रतैकमनसां देहेषु गेहेषु वा
श्रीही धीधृतिकीर्त्तिकान्तिसततस्थित्यन्तता स्तम्भनैः । सान्वर्थे प्रथयन् स्वनाम भविनां हृद्वेश्मवासं व्यधानित्यानन्दपदोदयाय सुखदः स स्तम्भनः स्ताजिनः ॥१ ॥ कस्तूरी तिलकं त्रिलोकविजयश्रीसम्पदः स्वस्तरु
श्विन्तातीत सुखाकरस्य महिमाम्नायस्य दिव्यश्रुतम् । विश्वोदयोतमहामहो हि विविधाऽऽधिव्याधिधन्वन्तरिः सोsस्तु स्वस्तिपदं समस्तजगतां पार्श्वप्रभुः स्तम्भनः ॥२॥
For Private and Personal Use Only