________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनराजचतुर्विंशतिकास्तोत्रम्
अथ श्रीजिनराजचतुर्विंशतिकास्तोत्रम् ॥ ३८ ॥
मेरोः किं शिखरस्थकल्पलतिकासर्वव्रताणुव्रतोद्घाटे वोद्भटकुञ्चिकोज्झितमहाराज्यश्रियोऽत्र च्छटाः । किं मुक्तेर्वरणस्रजेव सुजटां दृष्टेति शीर्षांसगां, यस्योत्प्रेक्षक कावदादिशतु मे श्रीआदिदेवः श्रियम् ॥ १ ॥ यत् पूर्व वृषभं क्षमाभरधरं सर्वसहं सर्वतः, स्वमेऽपश्यदसौ प्रसूरथ जिनोर्वकेकगोवृषः । यः स्वस्मिंस्तदलञ्चकार वृषभेत्याख्यां क्षितौ सार्थकां, स श्रीआदि जिनस्तनोतु नमतां शिष्टेष्टतुष्टिप्रथाम् ॥ २ ॥ यस्मिन् गर्भगते जितैव विजया मित्रैस्तथाऽक्षादिक,
४५
क्रीडायां जितशत्रुणाऽथ युवताराज्यव्रतावस्थया । यस्तिष्ठन् विषयैर्द्विषद्भिरजितो घोरोपसर्गैः क्रमा
जज्ञे श्रीअजितः शिवाय स जिनः सान्वर्थनामा स्वयम् ॥३॥ पूर्णाशा जननी समस्तजनता शङ्खानिरारामभूः
कल्पानल्परमानिधिः प्रतिपदं सत्संनिधिः सद्विधिः । आसीत् सत्यतमार्थनाम दधतो यस्यावतारेऽवनौ,
भूयाच्छं भवनाय शम्भवजिनः सद्भावभव्यात्मनाम् ॥ ४ ॥ मुक्तात्माऽप्यविमुक्तकोऽक्षरमयव्यक्तिर्न लिप्यालयः,
शश्वत् संवरजोऽपि संवरकरः श्रीदोऽप्यहोऽकिञ्चनः । विद्वानप्य गुरुर्हताहितपदः शान्तोऽपि यः सौस्तवो,
दिव्यामन्दमुदेऽभिनन्दनजिनः सुत्रामदत्तायः ॥ ५ ॥ निःशेषार्थविनिश्चयेषु सुमतिनों केवलं मङ्गला -
Sज्ञानम्लानितया नु विश्वजनता यस्यावतारेऽभवत् । न प्राच्येव यथार्कभाभिरमला शेषा अभि स्युर्दिशः, किन्तु श्री सुमतिस्तनोतु सुमतिं वोऽसौ यथार्थाह्वयः ॥ ६ ॥
For Private and Personal Use Only