________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२
श्रीधर्मनाथस्तोत्रम्
परसमयनयशास्त्वय्यसूयां दधानाः,
प्रलपनपरतन्त्राः कण्ठपीठे किरन्तु । सितकठिनकुठारं किंतु मेधाविनोऽमी,
त्वयि सुजिन न रक्ता रागमात्रेण किंचित् ॥२॥ मदमदनविगातक्रोधलोभादिदोषै,
रपहतमनसां स्यादन्यदेवावलीनाम् । त्वयि सति सुपते सन्मार्गदर्शिन्यवश्यं,
वितथपथजुषां साम्राज्यरोगो वृथैव ॥ ३॥ वितथपथवदान्या दोषदुष्टाः सुरास्ते,
क्वचिदपि न हि मान्याः सत्परीक्षाधिकारे । न हि सगुणसुरत्नस्थानमानं लभन्ते,
निपुणमतिसदस्सूञ्चावचाः काचखण्डाः ॥४॥ श्रीमाननन्तनाथोऽनन्तचतुष्टयरमारतः सततम् । व्रतहर्षविनयसूरितनुतः श्रिये धर्महंससरः ॥५॥
॥ इति श्रीमनन्तजिनस्तोत्रम् ॥ २०॥
॥ अथ श्रीधर्मनाथस्तोत्रम् ॥२१॥ वंशस्थमिदं छन्दःभानुप्रमाभासुरभानुभूधवाऽवदातवंशप्रभुता प्रभाविनम् । सद्दर्शनं सर्वजनीनदर्शनं धर्म जिनं धर्मविदं मुदा श्रये ॥१॥ स्वलक्षणस्थं सकलं जगत्रयं वदन् प्रमाभिश्चतुरार्य सत्यवित् । बुधः स्वयं यो न कदापि दुर्नयी श्रीधर्ममर्मशमिनं सदा स्तुमः ॥२॥ पर्यङ्ककम्रासनसङ्गि सद्वपुः श्लथं च नासा नियते स्थिरे दृशौ । न शिक्षितेयं परतीर्थदैवतैर्मुद्रापिते देव किमन्यदुच्यते ॥ ३॥
For Private and Personal Use Only