________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनस्तोत्रकोशः यस्य दर्शनबलाद्भवादृशां सम्प्रतीम उदिताप्तभावताम् । अन्यतीर्थिककुवासनाभिदे शासनाय भगवन्नमोऽस्तु ते ॥ ३ ॥ ज्ञानमुज्वलमनन्तधर्मतां स्यात् पदेन सकलेषु वस्तुषु । नाथ ते प्रकटयन् कुवादिनामागमस्य वितथत्वमादिशेत् ॥४॥
रथोद्धता। श्रीवासुपूज्य सार्वः स्तुत इति विजयप्रदोऽस्तु मे भगवान् । महहर्षविनयसूरितपदपद्मो धर्महंसमहः ॥ ५ ॥
॥ इति श्रीवासुपूज्यजिनस्तोत्रम् ॥ १८ ॥
॥ अथ श्रीविमलदेवस्तोत्रम् ॥१९॥
स्वागताछन्द:पुण्यपुण्य सगुणानणुवंशाशास्यमानकृतवर्म नृपोत्थम् । केवलोजवलकलाकलितार्थ वर्णयामि विमलं विमलेशम् ॥१॥ अन्यतीर्थिककृतागमबाधं स्वप्रमाणवचनोक्तनयोक्तिम् । दुर्नयोत्थकुपथस्थितिभङ्गं तीर्थनाथ भवदागममीड़े ॥२॥ ब्रह्मशून्यसकलक्षणनाशित्वादिवादिकुनयोन्नतिभङ्गैः। द्रव्यषट्कमवदस्त्वमधीश स्याद् विपत्तिभवनस्थितिरूपम् ॥ ३ ॥ दुर्नयस्थहयभङ्गविभङ्गैः सत्प्रमाणनयसम्भवभावैः । सप्तभङ्गविभवं हि तथाऽच्छाशेषवस्तु लभते स्वपदास्थाम् ॥४॥ सुविमलकेवलकमलः श्रीविमलः स्तुत इति श्रियं जगताम् । मतिहर्षविनयसूरितविशानो धर्महंसकलाम् ॥ ५॥
॥ इति श्रीविमलदेवस्तोत्रम् ॥ १९ ॥ ॥ अथ श्रीअनन्तजिनस्तोत्रम् ॥ २० ॥ अथ पुनर्मालिनी छन्दः
सुकृतसुकृतभोगाभोगवत् सिंहसेन,
क्षितिपतिततवंशख्यातिवल्लीतवाब्दम् । सकलनयविशुद्धाचारचञ्चञ्चरित्रं,
सहृदयनुतिपात्रं श्रीअनन्तं स्तुमस्तात् ॥१॥
For Private and Personal Use Only