________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अथ मालिनी
Acharya Shri Kailassagarsuri Gyanmandir
श्री जिनस्तोत्रकोशः
॥ अथ श्रीशीतलदेवस्तोत्रम् ॥ १६ ॥
दृढरथनरनाथश्रीपृथूत्तंसवंशप्रसृमरजनिशोभाभासुरलोककान्तम् । सकलकलकलाभिः श्लाघ्यलीलाविहारं
नमत भविकलोकाः ! शीतलं मङ्गलार्थम् ॥ १ ॥
परसमयनयेभ्योऽनन्तधर्मात्मकस्य
प्रमितिविषयिणस्ते शासनस्यांश केभ्यः । यदयमतिकदाशा हेलिबिम्बस्य सेहे
गण शिशुघृणिमालाऽऽडम्बरेभ्योऽवहेला ॥ २ ॥
परसमयकुनाथा दुःपथस्थाः स्वयं ये कुपथमपरलोकान् प्रापयन्ति स्वबुद्ध्या । सकलनयमयं स्याद्वादमात्थ त्वमर्ह, -
स्तदपि नमति नस्ते मानिनोऽसूययाऽन्धाः ॥ ३ ॥ परमतपतयोऽमी सर्जिनो भेदिनो वा
कथमपि भुवनानां वादिनामात्मबुद्ध्या । तदपि भवति निष्ठे शिष्टधर्मोपदेशे
भवभयभिदि शून्यास्तेन तुभ्यं नमोऽस्तु ॥ ४ ॥ श्रीशीतलविमलफलां कलय कलामीडितस्त्वमिति हि मुदा ।
श्रितहर्षविनयसूरितगुणस्य मे धर्महंसवसो ॥ ५ ॥
wwwwww
www
॥ इति श्री शीतल देवस्तोत्रम् ॥ १६ ॥
For Private and Personal Use Only
१९