________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीसुविधिनाथजिनस्तोत्रम् श्रीचन्द्रप्रभजिनस्तोत्रम् ॥ १४ ॥ सततं महसे नतोलसन्महसे नान्वयपावनस्थितिम् । विशदोदितसम्पदास्पदं प्रभुचन्द्रप्रभमानमाम्यहम् ॥१॥ सकलज्ञकृतेर्हितार्थनाप्रथनात् साधुपरिग्रहाग्रहात् । अविरोधिदयोदयात् प्रमा भवदुक्तागम एव धीमताम् ॥२॥ असिमशनरोपदेशतः कुपथात् घातमयाद्विरोधितः । कुनृशंसपरिग्रहाद्रुधा भवदन्यागममाहुरप्रमाम् ॥ ३॥ कुवादैरुदितं यदार्जवादमृतार्थ हि तदन्यथा परैः। विहितं तव गीषु विप्लवोऽजनि नायं तव शासनं महत् ॥४॥ ततहर्षविनयसूरिभिराश्रितसुवचाः स्तुतस्त्वमेवमिनव । तनु धर्महंस महसां मम विजयश्रीमहारूपम् ॥ ५॥
॥ इति श्रीचन्द्रप्रभजिनस्तोत्रम् ॥ १४ ॥
श्रीसुविधिनाथजिनस्तोत्रम् ॥ १५॥ श्रीसुग्रीवक्षोणिपस्फारवंशा शास्याहार्यैश्वर्यद स्वावतारम् । धर्माधर्मारोपलोपैकवाक्यं शान्तं दान्तं पुष्पदन्तं तमीडे ॥१॥ शक्त्याऽशक्त्याऽधीश दोषानशेषान् यानेव त्वं बाधसे स्म प्रपश्चैः। त्वय्युद्यातासूययेवाश्रितास्ते चित्रं सर्वे तीर्थनाथैः परैस्तैः ॥ २॥ वस्तुस्तोमं त्वं यथार्थ प्रमाणैःसाध्यं बाधातीतमीशादिशन् स्त्राक् । येषांद्वेष्योऽस्यश्वशृङ्गाणि तेभ्यःशश्वजल्पद्यः परेभ्यो नमोऽस्तु ॥३ नित्यानित्यं स्यात् सनानं विरूपं वाच्यावाच्यं सत्तथाऽसत्तदेव । वस्तु शात्वाविष्कृतं सत्यतास्थं देवाबाधं सत्त्वयैवापरैर्न ॥४॥
शालिनी। सुखहर्षविनयसूरितविज्ञानः सुविधिदेवविधिसुनिधिः । स्तुत इति शुचितां चिनु मे त्वं शश्वद्धर्महंस विभो ॥ ५॥
॥ इति श्रीसुविधिनाथजिनस्तोत्रम् ॥ १५॥
-
-
-
For Private and Personal Use Only