________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनस्तोत्रकोशः
नृपलक्ष्मकलत्रिकमीशजगत्रयपूज्यपदं प्रवदत् किमु ते । मणिहेममयासन भाति भवानिव मेरुसुरदुरभीष्टनिधिः ॥४॥ तव दीधितिमण्डलमीश बभौ जितभानुरिवास्ति भजन प्रसभम् । शरणाय जनेष्विव किं हवकृद्दिवि दुन्दुभिरुश्चरवैः प्रसरेत् ।। ५॥
तोटकच्छन्दः । श्रीहर्षविनयसूरिपूज्यः श्रीअभिनन्दनः। इति स्तुतस्तनोतु श्रीधर्महंसमहःश्रियम् ॥ ६॥
॥ इति श्रीअभिनन्दनदेवस्तोत्रम् ॥ १० ॥
__ श्रीसुमतिजिननाथस्तोत्रम् ॥ ११ ॥ क्षितिपुरन्दरमेघनृपान्वयोज्वलकुवेलविलासकलाधरम् । कमलकोमललोचनशालिनं सुमतितीर्थपतिं सुमतिं स्तुवे ॥१॥ वचनमुच्चमिदं मम यत्तव स्तुतिकरं करणं करणं श्रियाम् । यदिह सेवि मुदा तव मानसं शुचि तदीश यदह्रिविभावनम् ॥ २॥ षडसुमत्तनुवेषपरापरप्रकटनैर्नटनानि भवत्पुरः। अतनवं यदि मामथ वारय श्रमभृतं सुपते श्रितवत्सलः ॥ ३ ॥ भवपरम्परयाऽमितपुद्गलग्रहणपूरणजैभ्रमणश्रमैः। अतिविषण्णमथावतथात्र मां जिन यथा शिवसम्पदमाश्रये ॥४॥ इह हर्षविनयसुगुरुश्रीसूरिति संस्तुतः सुमतिदेवः । जयलक्ष्मीसुविलासं कलयतु मे धर्महंसकलाम् ॥ ५ ॥
॥ इति श्रीसुमतिजिननाथस्तोत्रम् ॥ ११ ॥
श्रीपद्मप्रभजिनस्तोत्रम् ॥ १२॥ विश्वश्रीनयविधिशेवधिरश्रीभूभर्तुः सुकुलकृतावतारतारम् । भव्योरःसरसिजचञ्चरीककनं श्रीपद्मप्रभविभुमाश्रये मुदाहम् ॥१॥
स्वार्थानामभिगमकं प्रमाणमात्थ
ज्ञानं त्वं परसमया वृथाऽन्यथाऽऽहुः।
For Private and Personal Use Only