________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीअभिनन्दनदेवस्तोत्रम् श्रीजितशत्रुभवोऽपि कथं स्यास्त्वं जितशत्रुरसौ स्वयमाशु । श्रीविजयाङ्गभवोऽपि सुजातः सर्वसदोभयथा विजयात्मा ॥४॥ इति हर्षविनयगुरुहृद्भक्तिव्यक्त्या नुतोऽजितो विजयी । यच्छतु मे जयलक्ष्मी सलीलगुरुधर्महंसरतिम् ॥ ५॥
॥ इति श्रीअजितदेवस्तोत्रम् ॥ ८ ॥
श्रीशम्भवनाथजिनस्तोत्रम् ॥९॥ भुवि शं भवतां दधत्स्वयं परशंभूत्युचितं पदं हि यः। विजितारिजितारिवंशजो जयदः स्ताद्भविनां स शम्भवः॥१॥ सहजातिशयाश्चतुर्मिता भुवने यस्य सुखाकराः स्मृताः। सुपवित्रचरित्रसंभवा भविकं नस्तनुतां स शम्भवः ॥ २॥ विततातिशयाः श्रिये सतां नवकैकादशकर्मघातजाः। भुवनोपकृतैकसत्फलाः प्रणुताश्चित्रपदानि शम्भवः ॥३॥ विशदातिशयाः सुरादिताजिनपैकोनकविंशतिस्तव । प्रभुतातिशयातिभाविनः प्रणुताः सौख्यविशेषपोषकाः ॥ ४ ॥ एवं शम्भवदेवः स्तुतः स्वरसतस्तनोतु जयराज्यम् । गुरुहर्षविनयसृरिह भविनां वरधर्महंसरसः ॥५॥
इति श्रीशम्भवनाथस्तोत्रम् ॥ ९॥
श्रीअभिनन्दनदेवस्तोत्रम् ॥ १० ॥ नृप संवर संवर सारकुलप्रकटीकृतमुक्तिपथप्रसरम् । अभिनन्दन सार्वमखर्वमुदा नुतिगोचरमाकलयामि कलौ ॥ १॥ सदशोकतरुस्त्वदुपर्यचकान्नतशोकहृतादिव देवरतः। हतमारशरा इव ते त्रिदशाः कुसुमानि किरन्त्युपदेशभुवि ।। २। जिनयोजनगामि गिरः प्रसरन्त्युचितं जनताररता इव ते । चमराण्युभपार्श्वगतानिव भूर्वदनानरतेव मरालततिः ॥ ३॥
For Private and Personal Use Only