________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तमो वशीकरणयन्त्रपरिच्छेदः।
हंसावृताभिधानं लवरयषष्ठस्वरान्वितं कूटम् ।
विन्दुयुतं स्वरपरिवृतमष्टदलाम्भोजमध्यगतम् ॥१॥ 'हंसावृतम् ' हंस इति पदेनावृतं-वेष्टितम् । किं तत् ? 'अभिधानम् ' देवदत्तनाम । 'लवरयषष्ठस्वरान्वितम्' लश्च वश्च रश्च यश्च षष्ठस्वरश्च ऊकारः एतैरन्वितं-युक्तम् । किं तत् ? 'कटम्' क्षकारम् । पुनः कथम्भूतम् ? 'बिन्दुयुतम् अनुस्वारसंयुक्तम्, एवं मव्यू इति पिण्डं हंसपदाद् बहिर्देयम् । पुनरपि कथंभूतम् ? 'स्वरपरिवृतम्' पिण्डाद् बहिः स्वरैरावेष्टितम् । पुनः कथम्भूतम् ? 'अष्टदलाम्भोजमध्यगतम्' अष्टदलकमलमध्ये स्थितम् ।।
तेजो है सोम सुधा हंसः स्वाहेति दिग्दलेषु लिखेत् ।
आग्नेय्यादिदलेष्वपि पिण्डं यत् कर्णिकालिखितम् ॥२॥ 'तेजो है सोम सुधा हंसः स्वाहा' तेजः-*कारः, 'हे' हमिति अक्षर, सोमः क्वीकारः, सुधा क्ष्वीकारः, 'हंसः' हंस इति पदम , 'स्वाहा' स्वाहा इति पदम । एवं ॐ है क्वी क्ष्वी हंसः स्वाहा इत्येवंविशियमन्त्रं 'दिग्दलेषु' प्राच्यादिषु चतुःपत्रेषु लिखेत् । 'आग्नेय्यादिदलेष्वपि' पश्चात् आग्नेय्यादिविदिग्गतचतुर्दलेषु 'पिण्डं यत् कर्णिकालिखितम्' यत् कर्णिकाभ्यन्तरे लिखितं यूं इति पिण्डं विदिक्पत्रेषु लिखेत् ।।
भूर्ये सुरभिद्रव्यविलिख्य तत् सिक्थकेन परिवेष्टय ।
नूतनघटेऽम्बुपूर्णे तद्यन्त्र स्थापयेद् धीमान् ॥३॥ ___ 'भूर्ये' भूर्यपत्रे 'सुरभिद्रव्यैः' कुङ्कुमकर्पूरादिसुगन्धद्रव्यैः 'विलिख्य' विशेषेण लिखित्वा 'तत्' तल्लिरिवतयन्त्रम् 'सिक्थकेन' मधूच्छिष्टेन 'परिवेष्टय' समन्ताद् आवेष्टय। 'नूतनघटे' नवकुम्भे। कथम्भूते? 'अम्बुपूर्णे शीतलजलपरिपूर्णे। 'तद् यन्त्र' तत् सिक्थकेन वेष्टितं यन्त्रम् ‘स्थापयेत्' निक्षिपेत् । कः ? 'धीमान्' बुद्धिमान् ॥
तन्दुलपूर्ण मृण्मयभाजनमप्युपरि तस्य संस्थाप्य ।
श्रीपार्श्वनाथसहितं करोति दाहज्वरोपशमम् ॥४॥ __ 'तन्दुलपूर्णम् ' शाल्यक्षतभरितम् 'मृण्मयभाजनम् ' मृदा निर्मितपात्रम् 'अपि' पश्चात् 'उपरि तस्य' पूर्णकुम्भस्योपरि 'संस्थाप्य' सम्यक स्थापयित्वा। कथम ? 'श्रीपार्श्वनाथसहितम' तन्दलीपरि श्रीपार्श्वनाथजिनप्रतिमायुक्तम् । एवं विधानेन कृते सति 'करोति' कुरुते। कम् ? 'दाहज्वरोपशमम् ' दाहज्वरस्य शान्तिम् ।।
श्रीखण्डेन तदालिख्य पाययेत् कांस्यभाजने । महादाहज्वरग्रस्तं तत्क्षणेनोपशाम्यति ॥५॥
१ विलिखेत् इति ख पाठः
For Private And Personal Use Only