________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अङ्गनाकर्षणाधिकारः ६। 'नाम' देवदत्तनाम, कथम्भूतम् ? 'तत्त्वविगर्भितम्' ह्रींकारमध्यस्थितम् , 'बहिः' ह्रीकाराद् बहिः प्रदेशे। 'आलिखेत्' समन्तालिखेत् । किम् ? 'शिखिमण्डलम्' अग्निमण्डलम् 'रेफमन्त्रवृतम्' रकारमन्त्रवलयेन तदग्निमण्डलं बाह्ये वेष्टयम् । 'इदम्' एतद् यन्त्रम् 'विलिखेत्' लिखेत् । क्व ? 'श्मशानजखपरे' प्रेतवनकर्परे । कैलिखेत् ? 'हिमकुङ्कमादिभिः' कपूरकाश्मीरादिसुगन्धद्रव्यः 'आदरात्' आदरेण । किं कुर्यात् ? 'तापयेत्' तापनं कुर्यात् । केन ? 'खदिराग्निना' खदिरकाष्ठजनितामिना । 'आनयति' समानयति। काम् ? 'अबलाम् ' वनिताम् । कथम् ? 'बलात्' बलात्कारेण । कियत्कालेन ? 'दिनसप्तकैः' सप्तदिवसैः। 'मदविह्वलाम् ' मदनाकुलिताम् ।।
वलयमन्त्रोद्धारः
3 नमो भगवति ! चण्डि ! कात्यायनि ! सुभगदुर्भगयुवतिजनानाकर्षय आकर्षय १ही र र घ्यूँ संवौषट् देवदत्ताया हृदयं घे घे ॥
इत्युभयभाषाकविशेखरश्रीमलिषेणसृरिविरचिते भैरवपद्मावतीकल्पेऽङनाकर्षणाधिकारः
षष्ठः परिच्छेदः॥६॥
१ औं को ह्रीं ठः ठः ठः ठः ठः है फट् देवदत्ताय हृदय घे घे संवौषट् इति ख पाठः।
For Private And Personal Use Only