________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परि० ३१] श्रीलघुशान्तिस्तवः ।
१३५ एवं यन्नामाक्षरपुरस्सरं संस्तुता जया देवी। कुरुते शान्ति नमतां नमो नमः शान्तये तस्मै ॥१५॥ इति पूर्वसरिदर्शितमन्त्रपदविदर्भितः स्तवः शान्तेः ।
सलिलादिभयविनाशी शान्त्यादिकरश्च भक्तिमताम् ॥१६॥ इदानी मन्त्राक्षरैः श्रीजयादेवीं स्तवीत्याचार्य श्रीमानदेवः ।
ओमिति परमज्योतिःस्वरूपिण्यै तुभ्यं नमो नमः तथा 'ॐ नमो हाँ ह्रीं हूँ ह्रः यः क्षः ह्रीं फट् फट् स्वाहा' इति मन्त्रस्वरूपिण्यै तुभ्यं नमः ॥१४॥
अथ विसङ्कलितानि मन्त्रपदान्येकीकृत्य लिख्यते सम्पूर्णो मन्त्रः"ॐ नमो भगवते अर्हते शान्तिनाथस्वामिने ( १ ) सकलातिशेषकमहासम्पत्तिसमन्विताय त्रैलोक्यपूजिताय नमो नमः शान्ति देवाय (२)
सर्वामरसुसमूहस्वामिकसम्पूजिताय भुवनजनपालनोद्यताय (३) सर्वदुरितविनाशनाय सर्वाशिवप्रशमनाय दुष्टग्रहभूतपिशाचशाकिनीनां प्रमथनाय (४)
नमो भगवति ! जये ! विजये ! अजिते ! जयन्ति ! जयावहे ! (५) सर्वसङ्घस्य भद्रकल्याणमङ्गलप्रदे ! साधूनां श्रीशान्तितुष्टिपुटिदे ! स्वस्तिदे ! (६)
भव्यानां सिद्धिवृद्धिनितिनिर्वाणजननि ! सत्त्वानामभयप्रदाननिरते ! (७)
भक्तानां शुभावहे सम्यग्दृष्टीनां धृतिरतिमतिबुद्धिप्रदानोद्यते! जिनशासनरताना श्रीसंपत्कीर्तियशोवर्द्धनि ! (९)
रोगजलज्वलनविषविषधरदुष्टज्वरव्यन्तरराक्षसरिपुमारिचौरेतिश्वापदोपसर्गादिभयेभ्यः रक्ष रक्ष शिवं कुरु कुरु शान्ति कुरु कुरु तुष्टिं कुरु कुरु पुष्टिं कुरु कुरु ( ११ ) ॐ नमो नमः ह्रीं ह्रीं हूँ हः यः क्षः यः क्षः ह्रीं फट् स्वाहा ॥"
अस्य मन्त्रस्य जापात् तथा अन्याभ्यर्णाकर्णनात् सर्वाण्यरिष्टानि सर्वा विपद् विली. यन्ते, सर्वाः सम्पदः सम्पद्यन्ते ।।
तस्मै शान्तये षोडशाहते नमो नमः, तस्मै कस्मै ? 'एवं' अमुना पूर्वोक्तप्रकारेण यस्य नामाक्षरपुरस्सरं-शान्तिनाथनामोच्चारणपूर्वकं यथा स्यात् तथा, 'संस्तुता' सम्यक् प्रकारेण गुणवर्णनमाहात्म्यादिना कीर्तिता सती जया देवी 'नमतां' प्रह्वीभवतां मनुष्याणां शान्ति कुरुते ॥१५॥
अत्र गाथायुग्मेन सम्बन्धः ।
शान्तेर्जिनस्य स्तवः-स्तोत्रं 'भक्तिमतां' भक्तियुक्तानां जीवानां 'सलिलादिभयविनाशी' सलिलादीनां-समुद्रादीनां भयस्य-बुडनादेविनाशी। आदिशद्वात् सलिलानल
For Private And Personal Use Only