________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट ३० आचार्यश्रीभद्रगुप्तविरचिता अनुभवसिद्धमन्त्रद्वात्रिंशिका ।
प्रणम्य श्रीमहावीरं विद्यारत्नमहानिधिम् ।
मन्त्रद्वात्रिंशिकां वक्ष्ये सर्वकार्यप्रसाधिकाम् ॥१॥ स्तम्भनं मोहमुच्चाटं वश्याकर्षणजम्भनम् ।
विद्वेषणं मारणं च शान्तिकं पौष्टिकं तथा ॥२॥ मुक्तिमार्ग च शास्त्रेऽत्र भणिष्यामि यथाविधि ।
एकाग्रीभूय भो भव्याः श्रूयतां भक्तिपूर्वकम् ॥३॥ १सर्वज्ञाभं महामन्त्रं सर्वकल्याणकारकम् ।
सर्वकर्मकरं चैव साधयेच यथाविधि ॥४॥ ब्रह्मत्रिलोककमला अकारं नमसोऽक्षरम् ।
रेफबिन्दुकलाक्रान्तं नमश्च मन्त्र उच्यते ॥५॥ २पीतं स्तम्भेऽरुणं वश्ये क्षोभणे विमप्रभम् ।
कृष्णं विद्वेषणे ध्यायेत् कर्मघाते शशिप्रभम् ॥६॥ द्वादशसहस्रजापो दशांशहोमेन सिद्धिमुपयाति ।
मन्त्री गुरुप्रसादाद् ज्ञातव्यस्त्रिभुवने सारः ॥७॥
श्रीयोगशास्त्रस्वोपज्ञवृत्त्यनुसारि टिप्पनकम् । १ ॐ श्री ह्रौं अर्ह नमः इत्येवं लक्षणम् ।
२ यद्यपि कर्मघातार्थिनां शशिप्रभस्यैव प्रणवस्य ध्यानमुचितम् , तथापि तत्तव्यक्षेत्रकालभावसामग्रीवशेन पीतादिध्यानान्यपि कदाचिदुपकारिणीत्येतदुपदिष्टम् । (यो. प्र. ८ श्लो, ३१)।
For Private And Personal Use Only