________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट २२ श्रीजिनदत्तसूरिविरचितम् श्रीचक्रेश्वरीस्तोत्रम्
श्रीचक्रेश्वरि चक्रचुम्बितकरे चञ्चञ्चलत्कुण्डला___ लंकारे कृतमस्तकोरुमुकुटे ग्रैवेयकालंकृते ॥ स्फारोदारभुजामभूषणकरे सन्नूपुरैर्बन्धुरे ___मातर्मन्ति नयं स्वमिष्टविनयं त्रायस्व संत्रासतः ॥१॥ श्रीचक्रेश्वरी चन्द्रमण्डलमिव ध्वस्तांधकारोत्करं
भव्यप्राणिचकोरचुम्बितकरं संतापसंपद्धरं । सम्यग्दृष्टिसुखप्रद सुविशदं कान्त्यास्पदं संपदां __पात्रं जीवमनःप्रसादजनकं भाति त्वदीयं मुखम् ॥२॥ श्रीचक्रेश्वरी युष्मदाननरविं पश्यन्ति नैवोदितं
ध्वस्तध्वान्ततति प्रदत्तसुगतिं संप्राप्तमार्गस्थितिं । ते ज्ञेया इह कौशिका इव जना हेयाः सतां सर्वथा
नादेयाः कुदृशो भवन्ति भगवत्युच्चैःशिवं वांछतां ॥३॥ श्रीचक्रेश्वरी युष्मदंघ्रिचरितं सर्वत्र तद्विश्रुतं ।
कस्याज्ञस्य मनोमुदे भवति नो निष्पुण्यचूडामणेः । कारुण्यान्वितमंगिसंमतमतिभ्रान्तिप्रशान्तप्रियं
श्रीसंकेतगृहं सदास्तविरहं पुण्यानुबन्धि स्फुटम् ॥४॥ श्रीचक्रेश्वरि ये स्तुवन्ति भवती भव्या भवद्भक्तयः ।
श्रीसर्वशपदारविन्दयुगले विश्राममातन्वतीम् ॥
For Private And Personal Use Only