________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट १८ अम्बिकाताटङ्कः।
सिंहारूढा सुतयुगविभूषिता कम्रनम्रमध्यगता । साऽम्बा देवी तीर्थाधिवासिनी हरतु मम दुरितम् ॥१॥
ॐ ह्रीं जय जय परमेश्वरि ! श्रीअम्बिके! आम्रहस्ते ! महासिंहयानस्थिते । किङ्किणीनूपुरक्वाणकेयूरहाराङ्गदानेकसद्भूषणैविभूषिताङ्गे ! सर्वसल्लक्षणैर्लक्षिताङ्गे ! जिनेन्द्रस्य भक्ते ! कले ! निष्कले ! निष्प्रपञ्च ! महामानने ! सिद्धगन्धर्वविद्याधरेन्द्राचिंते ! मन्त्रमूर्ते ! शिवे ! शङ्करे ! सिद्धिबुद्धिधृतिकीर्तिकान्तिविस्तारिणि ! शान्तिनिधितुष्टिपुष्टिदृष्टिप्रिये ! शोभने ! सुप्रहासे ! जरे ! जम्भिनि ! स्तम्भिनि ! मोहिनि ! दीपनि ! शोषणि ! त्रासिनि ! मोटिनि ! भञ्जिनि ! दुष्टसञ्चूर्णिनि ! क्षुद्रविद्रावणि ! शत्रुसञ्चूर्णिनि ! धार्मिकारक्षिणि ! देवि ! अम्बे ! महाविक्रमे ! भीमनादे ! सुनादे ! अघोरे ! सुघोरे ! सुरौद्रे ! सुरौद्रानने ! चण्डिके ! चण्डरूपे ! सुनेत्रे ! सुवक्त्रे ! सुगात्रे ! पवित्रे ! नमन्मध्यभागे ! जयन्ति ! जयन्ताकुमारी ! त्रैपुराङ्गि ! गौरि ! गान्धारि ! गन्धवि ! यक्षेश्वरि ! ॐ कालि ! कालि ! महाकालि ! योगेश्वरि ! जनमार्गस्थिते ! सुप्रशस्ते ! धनुर्बाणदण्डासिचक्राम्बुजानेकशस्त्रोदिते ! सृष्टिसंहारकत्रि ! दिव्ये ! देन्द्रनागेन्द्रभूपेन्द्रचन्द्रस्तुते ! सुवर्णे ! पवित्रे ! महामूलविद्यास्थिते ! ॐ वषट्कारस्वाहाकारस्वधाकारहींकारकेंकारबीजान्विते ! दुःखदारिद्रयदौ
र्भाग्यनिर्नाशिनि ! लक्ष्मीधृतिकीर्तिकान्तिविस्तारिणि ! ह्रीं नमो यक्षेश्वरि ! ह्रीं देवि ! कुष्माण्डिके ! हूँ नमो देवि ! अम्बिके ! ह्रः सदा सर्वसिद्धिप्रदे ! अलं रक्ष रक्ष मां देवि ! वादे विवादे रणे कानने शत्रुमध्ये श्मशाने अग्नौ गिरौ रात्रौ सन्ध्याकाले विहस्तं निरस्तं नभःस्थं निषण्णं प्रमत्तं भयाघ्रसिंहर्वराहैश्च रुद्धं तथा व्यालवेतालभूपालभीतं ज्वरेणाभिभूतं कृतान्तेन नीतं नरेण उक्तं नरैराक्षसैर्देवि ! अम्बालये ! त्वत्प्रसादात् शान्तिकं पौष्टिकं वश्यमाकर्षणं स्तम्भनं मोहनं दुष्टसञ्चूर्णनं धार्मिकारक्षणम् ।
For Private And Personal Use Only