________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट १७
अम्बिकास्तुतिः।
ॐ महातीर्थरैवतगिरिमण्डने ! जैनमार्गस्थिते ! विघ्नभीखण्डने ! । नेमिनाथाघ्रिराजीवसेवापरे! त्वं जयाम्बे ! जगजन्तुरक्षाकरे! ॥१॥ ह्रीं महामन्त्ररूपे ! शिवे ! शङ्करे ! देवि! वाचालसकिङ्किणीनूपुरे!। तारहारावलीराजितोरःस्थले! कर्णताडङ्करुचिरम्यगण्डस्थले ! ॥२॥ अम्बिके ! हो स्फुरद्वीजविद्ये ! स्वयं ह्रीं समागच्छ मे देहि दुःखक्षयम् । ह्रां हूँ तं द्रावय द्रावयोपद्रवान् ह्रीं द्रुहि क्षुद्रसभकण्ठीरवान् ॥३।। क्ली प्रचण्डे ! प्रसीद प्रसीद क्षणं ब्लू सदा प्रसन्ने ! विधेहीक्षणम् । सः सतां दत्तकल्याणमालोदये ! ह्स्वल्ह्रीं नमस्तेऽम्बिके ! अङ्कस्थपुत्रद्वये ॥४॥ इत्थमद्भूतमाहात्म्यमन्त्रस्तुते ! क्राँसमालीढषट्कोणयन्त्रस्थिते !। ह्रींयुतेऽम्बे ! मरुन्मण्डलालङ्कृते ! देहि मे दर्शनं ह्रीं त्रिरेखावृते ! ॥५॥ नाशिताशेषमिथ्यादृशां दुर्मदे ! शान्तिकीर्तिद्युतिस्वस्तिसिद्धिप्रदे !। दुष्टविद्याबलोच्छेदनप्रत्यले ! नन्द नन्दाम्बिके ! निश्चले ! निर्मले ! ॥६॥ देवि ! कूष्माण्डि ! दिव्यांशुके ! भैरवे ! दुःसहे दुर्जये ! तप्तहेमच्छवे ! । नाममन्त्रेण नि शितोपद्रवे ! पाहि मामहिपीठस्थकण्ठीरवे ! ॥७॥ देवदेवीगणैः सेविताङ्घ्रिद्वये जागरूकप्रभावैकलक्ष्मीमये !।
पालिताशेषजैनेन्द्रचैत्यालये ! रक्ष मां रक्ष मां देवि ! अम्बालये ! ॥८॥ अत्र स्तुतौ गुप्तीकृतो मन्त्रस्त्वेवम्
ॐ ह्रीं अम्बिके ! हाँ ह्रीं ह्रां ह्रीं क्लीं ब्लू सः हस्कल्ह्रीं नमः ।
For Private And Personal Use Only