________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परि० १५]
देवीस्तोत्रम्
उमे ! नन्दे ! नमस्तुभ्यं यमघण्टे ! नमोऽस्तु ते । श्रीकौमारि ! नमस्तुभ्यं वातकारिणि ! ते नमः ॥३६॥ दीर्घदंष्ट्रे ! नमस्तुभ्यं महादंष्ट्रे ! नमोऽस्तु ते । प्रमे ! रौद्रि ! नमस्तुभ्यं सुप्रभे ! ते नमो नमः ॥३७॥ महाक्षमे ! नमस्तुभ्यं क्षमाकारि ! नमोऽस्तु ते । सुतारिके ! नमस्तुभ्यं भद्रकालि ! नमोऽस्तु ते ॥३८॥ चन्द्रावति ! नमस्तुभ्यं वनदेवि ! नमोऽस्तु ते । नारसिंहि ! नमस्तुभ्यं महाविद्ये ! नमोऽस्तु ते ॥३९॥ अग्निहोत्रि ! नमस्तुभ्यं सूर्यपुत्रि ! नमोऽस्तु ते । सुशीतले ! नमस्तुभ्यं ज्वालामुखि ! नमोऽस्तु ते ॥४०॥ सुमङ्गले ! नमस्तुभ्यं वैश्वानरि ! नमोऽस्तु ते ! निरञ्जने ! नमस्तुभ्यं श्रीवैष्णवि ! नमोऽस्तु ते ॥४॥ श्रीवाराहि ! नमस्तुभ्यं तोतलायै नमो नमः । कुरुकुल्ले ! नमस्तुभ्यं भैरवपत्नि ! ते नमः ॥४२॥ अथागमोक्तनामानि स्वयमूह्यानि पण्डितैः । कथ्यन्ते कानि नामानि प्रसिद्धानि तथा न वा ॥४३॥ हेमकान्ते ! नमस्तुभ्यं हिमुलायै नमो नमः । यशविद्ये ! नमस्तुभ्यं वेदमातर्नमोऽस्तु ते ॥४४॥ श्रीमृडानि नमस्तुभ्यं विन्ध्यवासिनि ! ते नमः । पृथ्वीज्योत्स्ने ! नमस्तुभ्यं नमो नारदसेविते ! । ४५॥ प्रह्लादिनि ! नमस्तुभ्यमपर्णायै नमो नमः । जैनेश्वरि ! नमस्तुभ्यं सिंहगामिनि ! ते नमः ॥४६॥ बौद्धमातर्नमस्तुभ्यं जिनमातर्नमोऽस्तु ते ।। ॐकारे च नमस्तुभ्यं राज्यलक्ष्मि ! नमोऽस्तु ते ॥४७॥ सुधात्मिके ! नमस्तुभ्यं राजनीते ! नमोऽस्तु ते ।। मन्दाकिनि ! नमस्तुभ्यं गोदावरि ! नमोऽस्तु ते ॥४८॥ पताकिनि ! नमस्तुभ्यं भगमालिनि ! ते नमः । वज्रायुधे ! नमस्तुभ्यं परापरकले ! नमः ॥४९॥ .
For Private And Personal Use Only