________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीसरस्वतीकल्पः।
[परि० १२ : र ॐ क्रन्यादजिह्वां परिहरामि । दक्षिणदिशि पुष्पं भ्रामयित्वा क्षेपणीयम् । अथ वैश्वानररक्षा___ॐ हृदयाय नमः, ॐ शिरसे स्वाहा, । वैश्वानररक्षा । ___जिह्वा-चतुर्भुज-त्रिनेत्र-पिङ्गलकेश-रक्तवर्ण-तस्य नाभिकमले मन्त्रो न्यसनीयः । होतव्यं द्रव्यं ततस्मै उपतिष्ठते ।
वैश्वानराहूतिः ॐ जातवेदा सप्तजित ! सकलदेवमुख ! स्वधा। वार २१ आहूतिः करणीया । यम्ल्यूँ बहुरूपजिढे ! स्वाहा होमात् पूर्णाहूतिः मूलमन्त्रेण" देव्यै साङ्गायै सपरिकरायै समस्तवाङ्मयसिद्धर्थे द्वादशशतानि जापपुष्पचूर्णगुग्गुलगुटिका पूर्णाहूतिः । स्वाहा अनेन क्रमेण वार ३ यावद् भण्यते तावदनवच्छिनं आज्यधारया नागवल्लीपत्रमुखेन पूर्णाहूतिः कार्या । घृतकर्षः ताम्बूलं नैवेद्यम् , यज्ञोपवीत-नवीनश्वेतवस्त्रखण्डं वा दधिदूर्वाक्षतादिभिराहूतिः करणीया ।
अथ विसर्जनम्
मूलमन्त्रेण साङ्गायै सपरिवारायै देव्यै सरस्वत्यै नमः-अनेन मन्त्रेण आत्महृदयाय स्वाहा । वैश्वानरनाभिकमलात् देवी ध्यानेनात्मनि संस्करणीया पश्चाद् ॐ अस्त्राय फट् इति मन्त्रं वारचतुष्टयं भणित्वा वार ४ अग्निविसर्जन कार्यम् ।
ॐ क्षमस्व क्षमस्व भस्मना तिलकं कार्यम् । ऐं ह्रीं श्री कली हसाँ वद वद वाग्वादिनि ! भगवति सरस्वति ! तुभ्यं नमः ।
इति सारस्वतं समाप्तम् ।
अत्र श्रीवप्पभट्टिसारस्वतकल्पोक्तमायं बृहद् यन्त्रम् ?, इदं च द्वितीयमपि यन्त्रं आम्नायान्तरे दन्दृश्यते । गुरुक्रमेण लब्ध्वा पूजनीयम् । सर्व तत्त्वमिदं पाठतस्तु वाग्बीजं स्मरबीजवेष्टितमतो ज्योतिः कला तदबहि
श्वाष्टद्वादशषोडशद्विगुणितं द्यष्टाजपत्रान्वितम् । तद्बीजाक्षरकादिवर्णरचितान्यग्रे दलस्यान्तरे । हंसः कूटयुतं भवेदवितथं यन्त्रं तु सारस्वतम् ।
इति मूलकाव्यं यन्त्रोद्धारसूचकम् । तथा
ॐ ऐं श्रीमनु सौं ततोऽपि च पुनः फूली वदद्वौ वाग्वादिनी । एतस्मादपि ह्रीं ततोऽपि च सरस्वत्यै नमोऽदः पदम् ।
For Private And Personal Use Only