________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट १२ श्रीबप्पभटिसूरिकृतं श्रीसरस्वतीकल्पः।
कन्दात् कुण्डलिनी ! त्वदीयवपुषो निर्गत्य तन्तुत्विषा
किञ्चिच्चुम्बितमम्बुजं शतदलं त्वद्ब्रह्मरन्ध्रादयः । यश्चन्द्रद्युति ! चिन्तयत्यविरतं भूयोऽस्य भूमण्डले
तन्मन्ये कविचक्रवर्तिपदवी छत्रच्छलाद् वल्गति ॥१॥ यस्त्वद्वक्त्रमृगाङ्कमण्डलमिलत्कान्तिप्रतानोच्छल
च्चञ्चच्चन्द्रकचक्रचित्रितककुष्कन्याकुल! ध्यायति । वाणि ! वाणिविलासभङ्गुरपदप्रागल्भ्यशृङ्गारिणी
नृत्यत्युन्मदनर्तकीव सरसं तद्वक्त्ररङ्गागणे ॥२॥ देवि ! त्वद्धृतचन्द्रकान्तकरकश्चयोतत्सुधानिर्झर____ स्नानानन्दतरङ्गितं पिबति यः पीयूषधाराधरम् । तारालंकृतचन्द्रशक्तिकुहरेणाकण्ठमुत्कण्ठितो
वक्त्रेगोगिरतीव तं पुनरसौ वाणीविलासच्छलात् ॥३॥ क्षुभ्यत्क्षीरसमुद्रनिर्गतमहाशेषाहिलोलत्फणा
पत्रोन्निद्रसितारविन्दकुहरैश्चन्द्रस्फुरत्कणिकैः । देवि ! त्वां च निजं च पश्यति वपुर्यः कान्तिभिन्नान्तरं
ब्राह्मि ! ब्रह्मपदस्य वलाति वचः प्रागल्भदुग्धाम्बुधेः ॥४॥ नाभीपाण्डुरपुण्डरीककुहराद् हृत्पुण्डरीके गलत्
पीयूषद्ववर्षिणि ! प्रविशतीं त्वां मातृकामालिनीम् । दृष्ट्वा भारति ! भारती प्रभवति प्रायेण पुंसो यथा
निग्रन्थीनि शतान्यपि प्रथयति ग्रन्थायुतानां नरः ॥५॥
For Private And Personal Use Only