________________
Shri Mahavir Jain Aradhana Kendra
532
End :
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A DESCRIPTIVE CATALOGUE OF
सर्वसिद्धिकरं मार्गे मायाजालनिकृन्तनम् । जन्ममृत्युजराव्याधिनाशनं सुखदं वद || इति हिरण्यगर्भः पप्रच्छ स होवाच महेश्वरः । नानामार्गैस्तु दुष्प्रापं कैवल्यं परमं पदम् ॥ सिद्धिमार्गेण लभते नान्यथा पद्मसंभव । पतिताश्शास्त्रजालेषु प्रज्ञया तेन मोहिताः ॥ स्वात्मप्रकाशे रूपं तत् किं शास्त्रेण प्रकाश्यते । निष्कलं निर्मलं शान्तं सर्वातीतं निरामयम् ॥ तदेव जीवरूपेण पुण्यपापफलैर्वृतम् ।
यथाग्निर्दारुमध्यस्थो नोत्तिष्ठन्मथनं विना । विना वाभ्यासयोगेन ज्ञानदीपस्तथा न हि ॥ घटमध्ये यथा दीपो बाह्ये नैव प्रकाशते । भिन्ने तस्मिन् घटे चैव दीपज्वाला च भासते || स्वकायं घटमित्युक्तं यथा जीवो हि तत्पदम् । गुरुवाक्यसमाभिन्ने ब्रह्मज्ञानं प्रकाशते ॥ कर्णधारं गुरुं प्राप्य तद्वाक्यं प्लववद्दृढम् I अभ्यासवासनाशक्त्या तरन्ति भवसागरम् ॥
इत्युपनिषत् ॥
Colophon :-योगशिखोपनिषत् समाप्ता ॥
No. 747. योगशिखोपनिषत्YÖGASIKHŌPANIȘAD.
Pages, 12. Lines, 12 on a page.
Begins on fol. 1236 of the MS. described under No. 247.
Complete. Same as the last.
For Private and Personal Use Only