________________
Shri Mahavir Jain Aradhana Kendra
520
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
Acharya Shri Kailassagarsuri Gyanmandir
Begins on fol. 246 of the Ms. described under No. 309. This commentary is by Anandatirtha.
Beginning:
आनन्दमजरं नित्यमजमक्षयमच्युतम् । अनन्तशक्ति सर्वजं नमस्ये पुरुषोत्तमम् || मनोर्वैवस्वतस्यादावथर्वा ब्रह्मणोऽजनि । मित्रश्च वरुणश्चाथो प्रहेतिर्हेतिरेव च ॥ ब्रह्मणः प्रथमे कल्पे शिवः प्रथमजः स्मृतः । सनकाद्यास्तु वाराहे ब्रह्मा विष्णोस्सुतोऽग्रजः || इति ब्रह्माण्डे || ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः । ता एव परमा विद्या यदा विष्णोस्तु वाचकाः ॥ इति परमसंहितायाम् ॥
*
वेदैश्च पञ्चरात्रैश्च भक्तया यज्ञैस्तथैव च । दृश्योऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि || इत्यादि वाराहे ||
अत्रापि तदेतत् सत्यं मन्त्रेषु कर्माणि कवयो यान्यपश्यन्नित्यादिना कर्मविषयामपरविद्यामुक्त्वा येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्यामित्यारभ्य आथर्वणानेव मन्त्रान् परविद्यात्वेनाह । चतुर्वेदसंस्कारवतामेवात्र वेदविद्यायामधिकार उक्तः । तेषामेव तां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णमिति
End : ये त्वेतदेवं जानन्ति ते यान्ति परमं हरिम् । इति च ।
देवानां सन्ततौ जाताः प्रायशो ज्ञानिनः कृते । बलवद्धेतुतश्चान्ये यस्माद्वविदस्सुराः ||
For Private and Personal Use Only