SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TUE SANSKRIT MANUSCRIPTS. 417 क्रियाप्राधान्याभावादेव देवतारूपसिद्धवस्तुबोधका वेदान्ता इति वाचोयुक्तिः। देवतायाश्च त्रीणि रूपाणि स्थूलं सूक्ष्मं परञ्चेति। तत्राद्यं तत्तद्धयानश्लोकोक्तम् । द्वितीयं तत्तन्मन्त्रात्मकम् । तृतीयन्तु वामनात्मकम् । देवतारूपत्रैविध्यादेव तदुपास्तिरपि त्रिविधा । बहिर्यागजपान्तर्यागभेदात् । तदिदं सपरिकरं वेदपुरुषो महोपनिषद्रूपेणोपदिशति तिस्रः पुर इत्यादि स नेत्युपनिषदित्यन्तेन । अस्या उपनिषदः परदेवतास्तुतौ विनियोगः तृतीयदशममन्त्रलिङ्गात् । तत्र प्राधान्यादेवतां निर्देष्टुमाद्यामृचमाह । तिस्रः पुरस्त्रिपथा विश्वचर्षणी यात्रा कथाक्षरा सन्निविष्टा । अधिष्ठायैनामजरा पुराणि महत्तरा महिमा देवतानाम् ॥ मुक्तिस्तावत्पञ्चविधा सामीप्यमेकं सालोक्यसारूप्यसायुज्यत्रितयं कैवल्यश्चेति। ताखाद्यन्तौ प्रत्येकं द्वौ मार्गो । मध्यमत्रयमको मार्गः। तथा च तैत्तिरीया आमनन्ति । य एवं विद्वानुदगयने प्रमीयते । देवानामेव महिमानं गत्वादित्यस्य सायुज्यं गच्छत्यथ यो दक्षिणे प्रमीयते पितृणामेव महिमानं गत्वा चन्द्रमसस्सायुज्यं सलोकतामाग्मोत्येतौ वै सूर्याचन्द्रमसोमहिमानौ ब्राह्मणो विद्वानभिजयति तस्माद्ब्रह्मणो महिमानमिति । अयं भावः । ऊद्धरेतसां खाश्रमोक्तकानुष्ठानवतां चन्द्रलोकप्राप्तिः सामीप्यरूपा । प्रतीकोपासनया स्वस्वामिभावेनोपासनया अहंग्रहोपासनया सालोक्यादित्रितयरूपादित्यलोकप्राप्तिः । निर्गुणोपास्तिरूपब्रह्मज्ञानवतां तु कैवल्यरूपब्रह्मपदप्राप्तिः । इति एतन्मार्गत्रयमेव स्पष्टमुपबृंहितं विष्णुपुराणे तृतीय शे उत्तरं यदगस्त्यस्य अजवीथ्याश्च दक्षिणम् । पितृयानस्स वै पन्था वैश्वानरपथाद्वहिः ॥ इत्यादिना विवेकज्ञानदृष्टश्च तद्विष्णोः परमम्पदम् । इत्यन्तन। मार्गत्रैविध्यादेव गन्तव्याः पुर्योऽपि तिस्रः ईदृशपुरत्रयप्रापक. त्वात्तद्पत्वादेव परदेवता त्रिपुरेत्युच्यते । 5 For Private and Personal Use Only
SR No.020676
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 03
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1905
Total Pages349
LanguageEnglish
ClassificationCatalogue
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy