________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
416
A DESCRIPTIVE CATALOGUE OF
स्तीति विश्वासशीला एवामुष्मिकफलायासु यथाधिक्रियन्ते तथा तेष्वपि देवता नामास्मदादिभिरदृश्यमानाप्यभिमतफलदानक्षमा काचिदस्तीति विश्वासशीला एव रामकृष्णाद्युपासना(सु) अधिक्रियन्ते । ईदृशजनाभिप्रायेणैव देवतानां विग्रहादिकं समर्थितं बादरायणादिभिः । येषान्तु देवतासद्भावे जन्मान्तरकर्मवशादता(विश्वास आस्तिकता च ते पूर्वकाण्डोत्तर (क्त कर्मस्वेवाधिकारिणो न देवतोपासनायाम्। तादृशजनाभिप्रायेणैव देवतानां विग्रहादिपञ्चकनिरासेन कर्मप्राधान्यवादस्समर्थितो जैमिन्यादिभिः । अत एव तादृशकर्मठानामेव कर्मपरिपाकवशात् कतिपयजनानां पूजायां प्रवृत्तौ सत्यां मीमांसकमतपरित्यागप्रयुक्तोपहासकृतो वर्णिता मृगेन्द्रसंहितायाम् । ये तु देवतोपासकास्तैरपि विग्रहादिपञ्चकापन्न(ह्न)वाभिषा यरहस्यजनैरपि कर्मप्राधान्यवादो न निरसनीयः । तथात्वे तादृशकमठानां चित्तपरिपाकविशेषमन्तरेण समर्थ्यमानार्थे विश्वासानुदयान्निरसनयुक्तिभिः तदवलम्बितार्थे सन्देहोदयेन तेषामुभयभ्रष्टतापत्तेः । देवताविश्वासमिव कार्याण्येव (कर्माणि) । एतदभिप्रायेणैव
लोकसङ्ग्रहमेवामिसम्पश्यन् कर्तुमर्हसि । इत्यादयो विधयो
न बुद्धिभेदञ्जनयेदज्ञानां कर्मसङ्गिनाम् । इत्यादयो निषेधाश्च। उत्तरभूमिकाधिरूढेरपि पूर्वभूमिकासमर्थनशीलं भूमिकाया अप्रकाशनञ्चावश्यकम् । अत एव तेषां संरक्षणार्थमेवोपासकैरपि तानि कर्माणि तद्वदेव कार्यमि(र्याणी)ति तु पिण्डितोऽर्थः। तेनैतौ विधिनिषेधौ निस्वैगुण्ये पथि विचरतां जीवन्मुक्तानामप्यावश्यक(कावि) [स]ति सिध्यति । एषान्तु बहुजन्मसु पूर्वकाण्डोक्तकर्मानुष्ठानवशात् चित्तपरिपाकविशेषो दृढो दृश्यते तादृशान् प्रति तु सम्यक् परीक्ष्य स्खीयभूमिका शनैः शनैः प्रकाशनीयैव । अन्यथा सम्प्रदायविच्छेदापत्तेः। त्रिपुरसुन्दर्युपास्तिपर्यन्ता ये भूमिकाभेदास्ते तु सविस्तरं वामकेश्वरतन्त्रव्यास्याने सेतुबन्धाख्यानेऽस्माभिः प्रदर्शिताः । उपासनाशास्त्रे तु देवताप्राधान्यमेव न कर्मणः प्राधान्यम् ।
For Private and Personal Use Only