________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
151 ननु को ऽयं वेदो नाम । के वा तस्य विषयप्रयोजनसम्बन्धाधिकारिणः । कथं वा तस्य प्रामाण्यम् । न खल्वेतस्मिन् सर्वस्मिन्नसति वेदो व्याख्यानयोग्यो भवति । इष्टप्राप्त्यनिष्टपरिहार पोरलौकिकमुपायं यो ग्रन्थो वेदयति स वेदः स(अ)लौकिकपदेन प्रत्यक्षानुमाने व्यावत्यते । अनुभूयमानस्य स्रक्चन्दनवनितादेरिष्टप्राप्तिहेतुत्व मौषधसेवादेरनिष्टपरिहारहेतुत्वं च प्रत्यक्षतः सिद्धम् ॥ खेनानुभविष्यमाणस्य पुरुषान्तरगतस्य च तथात्वमनुमानगम्यम् । एवं तर्हि भाविजन्मगतमप्यनुमानगम्यमिति चेन्न । तद्विशेषस्यानवगमात् । न खलु ज्योतिष्टोमादिरिष्टप्राप्तिहेतुः कलाभक्षणवर्जनादिरनिष्टपरिहारहेतुरित्यमुमर्थ वेदव्यतिरेकेणानुमानसहस्त्रेणापि तार्किकशिरोमणिरप्यवगन्तुं शक्नोति । तस्मादलैीककोपायबोधको वेद इति लक्षणस्य नातिव्याप्तिः। अत एवोक्तम्।
प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते ।
एनं विदन्ति वेदेन तस्माद्वेदस्य वेदता । इति । स एवोपायो वेदस्य विषयसबोध एव प्रयोजनम्।
इषे त्वोजें त्वेत्यादि ॥ अस्मिन्मन्त्रे विनियोगानुसारेण छिनीति पदमध्याहृत्य वाक्यं पूरणीयम्। इट् अन्नं सर्वैः प्राणिभिरिष्यमाणत्वात् । उर्दू बलहेतू रसः । उर्ज-बलप्राणनयोरिति धातुः । ऊर्ज(ज्य)ते बलं सम्पाद्यते ऽनयोरि(नये)ति सत्वरूपयेत्युक्तम् । . . . .
त्वामाच्छिनद्मि । तस्य देवस्य बलप्रवरस्यार्थं त्वामाच्छिनीति वाक्यार्थः . . . . . . ___ इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराजराजपरमे श्वरश्रीवीर बुक्कराजस्याज्ञापालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे यःसंहितायां प्रथगकाण्डे प्रथमप्रपाठके प्रथमो ऽनुवाकः ॥
For Private and Personal Use Only