SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 212 A DESCRIPTIVE CATALOGUE OF एवं व्याख्याता इाष्टपशुसोमानानां तद्विकृतीनाञ्च मन्त्रा ब्राह्मणभागाश्च । इदानीन्तस्यैव तच्छेषभूतमरण्येऽनुवाक्यतन्त्रं व्याख्यास्यामः । अत्राहुः होतॄन् प्रवर्यकाण्डे यान् याश्चोपनिषदो विदुः । अरुणाम्नायविधी चैव काठके परिकीर्तितौ ॥ रुद्रा नारायणश्चैव मेधो यश्चैव पैतृकः । एतदारण्यकं सर्व नाव्रती श्रोतुमर्हति ॥ कल्पे पितृविधिश्चैव प्रवर्यविधिरेव च । अरुणाम्नायविधी चैव शतरुद्रविधिस्तथा ॥ काठकेष्टय आम्नाता मन्त्रारतानप्यतन्द्रितः । यथाव्रतमुपाकृत्य त्वधीयीतेति चोद्यते ॥ अत्र सन्त्यष्टौ काठके काण्डानि कठमुनिना दृष्टानि सावित्रनाचिकेतचातुर्होत्र वैश्वसृजारुणकेतुकाख्यानि पञ्चाग्निचित्यानि दिवःश्ये नयोपाघाश्चेष्टयः(अपामेष्टयः) स्वाध्यायब्राह्मणमष्टममिति । तेषामारुणकेतु कोऽस्मिन् प्रश्ने विधीयते। अरुणाः काण्डर्षयः। प्रथमानुवाकः शान्त्यर्थ उपधानार्थश्च । आपमापामित्यत्र उपधानार्थः पुनराम्रायते । तत्राध्ययनकाले भद्रकर्णेभिरिति द्वे जपति । ब्राह्मणञ्च भवति भद्रकभिरिति । अपित्वेति। उपधानकाले द्वे अप्येते उपदध्यात्। द्वे चैते अनु(त्रि)टुभो। हे देवाः उत्तरस्यामृचि श्रूयमाणाःइन्द्रादय आमन्त्यून्ते। भद्रं भजनीयं कल्याणं वेदाख्यं साङ्गेतिहासपुराणं कर्णेभिः कर्णैः श्रोत्रैः। आचार्यान्तेवामिनामृत्विग्यजमानानां वा बहुत्वाद्बहुवचनम् । बहुलञ्छन्दसीति भिस ऐसभावः । शृणुयाम युष्मत्प्रसादात् सर्वदा श्रोतुं समर्थाः स्याम । भद्रं कल्याणं यज्ञादिकर्म च अक्षभिश्चक्षुभिरिन्द्रियैः पश्येम द्रष्टुं समर्थाः स्याम । छन्दरयपि दृशत इत्यनुदात्तत्वम् । अध्ययन श्रवणादिभिर्यागार्हा वयं पशेम । For Private and Personal Use Only
SR No.020675
Book TitleDescriptive Catalogue of Sanskrit Manuscripts In Madras Vol 01 Part 02
Original Sutra AuthorN/A
AuthorM Sheshgiri Shastri
PublisherGovernment Press Madras
Publication Year1904
Total Pages184
LanguageEnglish
ClassificationCatalogue
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy