________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूमिका
प्रमाणतः प्रतिपार्थो हि लोकः प्रवर्तते तेषु तेष्विष्टेषु, निवर्तते च द्विष्टेभ्यः । अतथानुक्तिसिद्धं भवति लोकयात्रा प्रमाणेष्वायतत इति । प्रत्यक्षादिषु तेषु प्रमाणेषु शब्दः प्राधान्यं भजति । यः खलु परोक्षस्वभावान् देशकालविप्रकृष्टांश्चाप्यानितरप्रमाणनिरपेक्षं प्रत्याययति । यदि न दीप्येत शब्दाहयं ज्योतिः, तर्हि कृत्स्नं जगदन्धं तमो जायेतेति हि स्म प्राह परमाचार्यों दण्डी।
उभाविहोपलभ्येते महापरीवाही शब्दप्रमाणस्य--वैदिको लौकिकश्चेति । तत्र प्रथमं प्रभुसम्मितं नित्यनिरवद्यतया धर्माधर्मानुशासनेन, मन्त्रतन्त्रोपदेशेन, भुवनभावुकभावकतया च प्रमाणेषु मूर्धाभिषिक्तं प्रचक्षते प्रामाणिकाः । तदुपजीविनस्तन्मतानुवर्तिनश्च द्वितीयस्य सन्ति शास्त्रपुराणादिरूपाः प्रभेदा बहवः । तेषु शास्त्राणि तत्तदर्थानुशासनानि विचारशैली परिचाययन्ति । अवधानशक्तिं सूक्ष्मावेक्षणदक्षताञ्च चित्तस्योत्तेजयन्ति । बुद्धिं प्रवर्धयन्ति । पुराणादीनां प्रभेदान्तराणां तात्पर्यनिर्णयादौ भृशमुपयुञ्जते च। अतः सविशेषमाद्रियन्ते च मेधावन्द्रिः । तानि न्यायव्याकरणादीनि कारुणिकैलोकानुग्रहकुतूहलिभिः पूर्वसूरिभिर्बहुकालपरिश्रमेण बहुप्रकारं विस्तरं परिष्कारञ्च प्रापग्य सम्पन्नानि सुखप्रवेशानि चाकारिषत । अध्ययनाध्यापनादिद्वारकं सार्वत्रिकमत्र प्रचारमनायिषत च । तत्रापि 'काणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम्' इति विशेषतः समाद्रियेते ।
परन्तु दृश्यमानानि तिरस्कृत्य अदृश्यमानानि चाविष्कृत्य यथेच्छं विहरतो महाकालस्य वैभवात् प्रत्यहं प्रक्षीयमाणप्रचाराण्येवाद्य हन्त ! तान्यालक्ष्यन्ते, शास्त्रपाण्डित्यवतां सङ्ख्यापि क्रमशो ह्रासं भजते । सम्प्रति शास्त्राणामध्ययने प्रवर्तमाना विरलाः । प्रवृत्तेष्वप्यनापातरमणीयां व्युत्पत्तिं प्रपद्यमाना विरलतराः । व्युत्पन्नेष्वपि प्रयत्नार्जिताया व्युत्पत्तेः पालने पोषणे च यतमाना विरलतमाः। ईदृशे सार्वत्रिके शास्त्रवैमुख्ये किन्नाम स्यान्निदानमिति विचार्यमाणे प्रथममिदं बुद्धिमारोहेत् सर्वस्यापि, यत्संस्कृतशास्त्राणामध्ययनं लाभपूजाख्यातिषु पुरेवाधुना नोपकुरुत इति । तदेतत् त्रयमेव हि प्रधानं कामनास्पदं मुख्य प्रवृत्तिलक्ष्यञ्च लोकस्य । किञ्च पिपठिषूणां पाठसौकर्यमपि नाद्य विद्यते यथापूर्वम् । न खलु वचन नूतनाः शास्त्रपाठशालाः स्थाप्यन्ते । स्थापितपूर्वासु भूरिशो विनष्टाः । शिष्टाश्च यथावन्न परिपाल्यन्ते । अपि च व्यवस्थापितकमा चिराय परम्पराहता च पाठपद्धतीः राष्ट्राधिकारस्थानेषु डिग्री विना नियमनं न कर्तव्यमिति व्यवस्थापनात्तदुपयोगितया परिष्करणाभिमानेन संकुलतां नीता सम्भ्रमविभ्रमजननी दुस्सञ्चरा पलवप्राहिपाण्डित्यमात्रोपयोगिनी च क्रियते ।
एवं हेतुभिर्बहुभिरापादितेन शास्त्राणां प्रचारविलोपेन सीदतां विदुषामिदमिदानीमस्ति किश्चित्समाश्वासजनकम् ; यदद्य भारतभरणाधिकारिणः संस्कृतसंरक्षणे साभिनिवेशा दत्तावधानाच
For Private And Personal Use Only