________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१९४
'न च' रत्नमालिका
न च भगवज्ज्ञानस्य प्रतिबन्धकत्वेऽपि तत्समानधर्मितावच्छेदककहेतुमद्विशेष्यक साध्यवत्ताज्ञानत्वव्यापकत्वं कामिनीजिज्ञासादिप्रतिवध्यताया एवेति कथमव्याप्तिरिति वाच्यम्; पूर्वोक्तव्यभिचारिविशेषेऽतिव्याप्तिवारणाय स्वीययत्कि - ञ्चिद्विशेष्यतावच्छेदकावच्छिन्नहेतुमद्विशेष्यकसाध्यवत्ताज्ञानत्वव्यापकत्वस्यैव प्रतिवध्यतायां विवक्षणीयतया साध्याभाववत्तानिश्चयप्रतिवध्यताया अपि तथात्वात् ।
न चैवं सति स्वीययत्किञ्चिद्विशेष्यतावच्छेदकह्रदत्वेन पर्वतादिविषयकसाध्यवत्ताज्ञान सामान्यं प्रति हदे वह्नयभावावगाहिनो भगवज्ज्ञानस्य प्रतिबन्धकत्वेनाव्याप्ते रुक्तविवक्षणासम्भव इति वाच्यम्; हेतुमद्वृत्तियत्किञ्चिद्धर्मावच्छिन्नविशेष्यकसाव्यवत्ताज्ञानत्वव्यापकत्वस्यैव विवक्षणेनादोषात् ।
Acharya Shri Kailassagarsuri Gyanmandir
नूतनालोकः
अव्याप्यवृत्तिजातिविशेष एव संशयत्वमिति मिश्रपक्षस्तु जातेरव्याप्यवृत्तित्वानभ्युपगमादुपेक्ष्य इति । अन्यदन्यतोऽवसेयम् ।
कामिनी जिज्ञासादिप्रतिवध्यताया एवेति । वृक्षः कपिसंयोगी, द्रव्यं कपिसंयोगीत्यादिनानाधर्मावच्छिन्नविशेष्यकज्ञानानां तादृशसाध्यवत्ताज्ञानत्वादिति भावः । व्यभिचारिविशेषेति । यत्र हेतुमद्विशेष्य कसमानाधिकरणधर्मावच्छिन्नाभावप्रकारकं ज्ञानं भ्रमात्मकं समूहालम्बनात्मकमेव वा जातम्, तादृशव्यभिचारीत्यर्थः । यत्र हेतुमदवृत्तिधर्मप्रकारेण हेतुमद्विशेष्यक साध्यवत्ताज्ञानं न जातम्, तत्र केवलान्वयिस्थले च लक्षणसमन्वयादाह – अव्याप्तेरिति । प्रसिद्धस्थल एवेदानीमव्याप्तिरिति भावः । हेतुमद्वृत्तीति । इदानीं प्रमायां हेतुमद्विशेष्यकत्वविशेषणं नोपादेयमेव । अदोषादिति । न चैवमपि वह्नद्यभाववद्धदवृत्तित्वविशिष्टद्रव्यत्ववत्कालीन पर्वतो व्यधिकरणधर्मावच्छिन्नवह्नयभाववानिति प्रमायाः केवलद्रव्यत्वत्वेन रूपेण हेतुमवृत्तियद्धदवृत्तित्वविशिष्टद्रव्यत्वम्, तदवच्छिन्नविशेष्यकसाध्यवत्ताबुद्धिं प्रति प्रतिबन्धकत्वादव्याप्तिर्दुर्वारैवेति आलोकप्रकाशः
बन्धकतावच्छेदककोटौ संशयत्वविशिष्टानिरूपिततदभावप्रकारताया एंव निवेशान्निखिलसंशयव्यावृत्तिरित्यादिकं मनसिकृत्याह -- श्रन्यदिति । अन्यतः केवलान्वयिप्रकरणादिभ्यः ।
प्रसिद्धस्थल एवेति । न त्वव्याप्यवृत्तिसाध्यकस्थलमात्र इत्यर्थः । वह्नयभाववदिति । एतच्च विशिष्टद्रव्यत्ववतो विशेषणम् । प्रमात्वसम्पत्तये विशिष्टद्रव्यत्वस्यावच्छेदकत्वानुसरणम् । प्रतिबन्धकत्वादिति । तदभावावच्छेदकत्वग्रहस्य तादृशावच्छेदकत्वग्रहविषयधर्मावच्छिन्नविशेष्यकतद्वत्ताबुद्धिं
For Private And Personal Use Only