SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १९२ 'न च' रस्नमालिका नूतनालोकः तिपक्षगादाधर्याम् । न च संशये विरोधभानानभ्युपगमे समुच्चयोत्पाददशायां संशयापत्तिरिति वाच्यम् ; मणिमन्त्रादिन्यायेन कोट्योरव्याप्यवृत्तित्वज्ञानस्य तत्र प्रतिबन्ध - कत्वकल्पनात् । केचित्तु संशये प्रत्येककोटिप्रकारतानिरूपितनिश्चयीय विशेष्यताद्वयमेव, एक विशेष्यतापक्षस्यानुमितिग्रन्थादौ दूषितत्वात् । अत एव तथाविधैकविशेष्यताशालिसमुच्चयाद्वैलक्षण्यम् । इत्थञ्च विशेष्यताद्वयसम्बन्धाकल्पनप्रयुक्तलाघवा नुरोधेनावश्यकल्पनीयसमुच्चयभावस्य भगवज्ज्ञानस्य तादृशविशेष्यताद्वयानिरूपकत्वात् प्रतिबन्धकत्वमव्याहतमेवेति । तन्नः समुच्चयस्याव्याप्यवृत्तित्वज्ञानजन्यत्वनियमेन भगव - ज्ज्ञानस्य समुच्चयरूपत्वासम्भवात् । एककोटिविशेष्यका पर कोटिप्रकार कसंशयस्य तत्तदभावप्रकारतानिरूपित विशेष्यताद्वयशून्यतया संशयत्वानुपपत्तेश्च । यत्तु अवधारणत्वमेव प्रतिबन्धकतावच्छेदकम् । तच्च न निर्णयत्वरूपम्, विरोधिकोट चुपस्थितिकालीन विशेषदर्शनानधीन निर्णयानन्तरमवधारयामीति प्रतीत्यआलोकप्रकाशः Acharya Shri Kailassagarsuri Gyanmandir विरोधभानानभ्युपगम इति । तदभ्युपगमेऽव्याप्यवृत्तित्वज्ञानेन तद्भानप्रतिबन्धान्न संशय इति भावः । अनुमितिग्रन्थादाविति । आदिपदेन केवलान्वयिग्रन्थपरिग्रहः । दूषितत्वादित्यादि । एकको टिविशेष्यकापरकोटिप्रकारक संशयसाधारण्यासम्भवादिनेत्यादिः । प्रतिबन्धकत्वमव्याहतमेवेति । अथाप्रामाण्यग्रहवदव्याप्यवृत्तित्वग्रहस्याप्युत्तेजकत्वं स्वीकरणीयम्, अन्यथा समुच्चयानन्तरं समुच्चयानुपपत्तेः । तथा च भगवज्ज्ञानस्याव्याप्यवृत्तित्वविषयकतया कथं प्रतिबन्धकत्वम् । न च संशयव्यावृत्तये वह्नयाद्यप्रकारकत्वरूपनिर्णयत्वस्य प्रतिबन्धकतावच्छेदककोटावश्यं निवेशनीयतया समुच्चयात्मकबाधबुद्धेः प्रतिबन्धकत्वमप्रसक्तमेवेति व्यर्थमेवोत्तेजकत्वमिति वाच्यम्; एवं सति विनश्यदवस्थापन्नाव्याप्यवृत्तित्व ज्ञानजन्यसमुच्चयानन्तरं संशयवारणाय समुच्चयसाधारणस्य निरुक्तविशेष्यत । द्वयशून्यत्वरूपनिर्णयत्वस्यैव निवेशनीयतया तस्यास्तत्प्रसक्तेव्याप्यवृत्तित्वज्ञानस्योत्तेजकताया आवश्यकत्वात् । स्पष्टं चैतत् प्रतिबन्धकताविचारे इति चेन्न; अव्याप्यवृत्तित्वज्ञानविरहविशिष्टत्वस्य सामानाधिकरण्य-कालिक विशेषणत्वोभयसम्बन्धावच्छिन्नप्रतियोगिताकाभावरूपस्यैव लाघवेन प्रकृते विवक्षणीयतया तस्य भगवज्ज्ञानसाधारण्यात् । एतच्च मूल एवोक्तमित्याशयः । For Private And Personal Use Only
SR No.020673
Book TitleNa Cha Ratnamalika
Original Sutra AuthorN/A
AuthorSastra Sharma, Surati Narayanmani Tripathi
PublisherVaranaseya Sanskrit Vishvavidyalay
Publication Year
Total Pages215
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy