________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९०
'नच' रस्नमालिका रनुमित्यापत्त्योश्चानुमिनोम्यापादयामीति प्रतीतेविषयताविशेषो दुरपह्नवस्तथा सन्देलीत्यनुव्यवसायबलात् संशयेऽपीति तत्प्रतियोगित्वमेव संशयत्वम् , तस्य विरोधानवगाहिज्ञानसाधारण्ये क्षतिविरहात् ।
नूतनालोकः तद्धेतुत्वखण्डनस्य दीधितिकृतामत्यन्तासाङ्गत्यापत्तेरिति । एवं घटप्रत्यक्षविषयकमानसं प्रति लौकिकप्रत्यक्षसामग्रीजन्यघटादिप्रत्यक्षस्य हेतुत्वकल्पनेनैव घटायुपनीतभानानन्तरं घटं साक्षात्करोमीत्यनुव्यवसायापत्तिरशक्यैवेत्युच्यते, तदापि न घट साक्षात्करोमीत्याद्यनुव्यवसायानुपपत्तेौकिकविषयता स्वीकार्या। अधिकमन्यत्रानु
आलोकप्रकाशः स्यैवानुपगमात्तन्निवेशसम्भव इत्याशयात् । अत्यन्तासाङ्गत्यापत्तेरिति । आहार्यज्ञानस्यापि विरोधित्वे शङ्काया एवानुत्थितेः, आहार्यज्ञानोत्तरमभाववत्ताबुद्धरेवानुत्पादादित्येव समाधातुं युक्तत्वाच्चेति भावः । स्वीकार्येति । अन्यथा नवटिततादृशप्रतीतेर्घटविषयकप्रत्यक्षाभावविषयकवे घटायुपनीतभानोत्तरमपि तदनुत्पत्त्यापत्तेः, तदानी घटप्रत्यक्षसत्त्वेन तदभावरूपविषयासत्त्वात् । न च घटादिनिष्ठलौकिकसामग्रीजन्यत्वविशिष्टप्रत्यक्षाभाव एव तस्य विषय इति वाच्यम् ; सामग्यादेरनुपस्थितिदशायां तादृशप्रतीत्यनुपपत्तेः। न च स्वनिष्ठलौकिकसामग्रीजन्यत्वसम्बन्धावच्छिन्नप्रतियोगिताकघटाभावविशिष्टप्रत्यक्षमेव तद्विषय इति वाच्यम् ; तस्य वृत्त्यनियामकतया अभावप्रतियोगितानवच्छेदकत्वादिति भावः ।
केचित्तु घटादिप्रत्यक्षविषयकलौकिकमानसत्वावच्छिन्नं प्रति लौकिकप्रत्यक्षसामग्रीजन्यघटादिव्यवसायस्य हेतुत्वे जन्यत्वादिघटितधर्मस्य कारणतावच्छेदकत्वं कल्पनीयमिति गौरवापत्त्या अतिरिक्तलौकिकविषयतां स्वीकृत्य तथाविधानुव्यवसायं प्रति घटादिनिष्ठलौकिकविषयताशालिनिश्चयत्वेन हेतुत्वकल्पने लाघवादतिरिक्तलौकिकविषयतासिद्धिरित्याहुः । तदसत् ; लाघवेनातिरिक्तविषयतासिद्धेः प्रतिबन्दिसहस्रकबलितत्वात् । तथा हि-उक्तरीत्याऽतिरिक्तविषयताङ्गीकारे पर्वतो वह्निमानित्यनुमितिं प्रति वह्निव्याप्यधूमवान् वह्निव्याप्यालोकवानित्याद्यनेकविधपरामर्शानां भिन्नभिन्नरूपेण हेतुताविलयप्रसङ्गः, तावत्सु परामर्शेष्वेकां वह्नयादिनिष्ठातिरिक्तविषयतामङ्गीकृत्य तादृशविषयताशालिनिश्चयत्वेन हेतुत्वकल्पनस्यैव लाघवेनोचितत्वात् । न चेष्टापत्तिः, तथा सति तादृशजनकतावच्छेदकविषयताश्रयव्याप्तिनिरूपणस्यासाङ्गत्यापत्तेः। एतेन चतुःसंयोगादिजन्यतावच्छेदकतया लौकिकविषयतासिद्धिः । अन्यथा तत्रोपनीतभानादौ व्यभिचारस्य दुरित्वादिति निरस्तम् , स्वान्यवहितोत्तरक्षणोत्पत्तिकत्वसम्बन्धेन चक्षुःसंयोगादिकं विशिष्य निवेश्य कार्यकारण
For Private And Personal Use Only