________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नूतन लोकटीका तत्प्रकाशटिप्पण्योपबृंहिता
न चैवं सति धूमवान् वद्धेरित्यादावतिव्याप्तिः, तत्र साध्यवत्ताज्ञानत्वव्यापक प्रतिवक्ष्यतानिरूपितप्रतिबन्धकताया अयोगोलकत्वावच्छेदेन साध्याभाववत्तानिश्चयमात्रनिष्ठतया धर्मिविषयत्वेनानवच्छेदादिति वाच्यम्; धर्मितावच्छेदकव्यापआलोकप्रकाशः
1
विभक्त्यन्ताः पदम्” इति गौतमसूत्रे, “क्रियाप्रधानमाख्यातम्, यथा पचति" इति न्यायवार्त्तिककारवचनात्, "भावप्रधानमाख्यातम् सत्त्वप्रधानानि नामानि " इति यास्कवचनाच्च क्रियाप्राधान्यस्यैव स्वरसतः सिद्धत्वात् । एवं कर्तुः प्राधान्ये "पश्य मृगो धावति, शृणु कूजति कोकिलः " इत्यादेर्दर्शनाद्यन्वयानुपपत्तेश्च, तस्य कर्तृत्वविशेषणत्वादिति वाच्यम्; क्रियाप्राधान्याभ्युपगमे " इदानी चैत्रीय तण्डुलं न पचति मैत्रः" इति प्रयोगानुपपत्तेः । तथा हि-तत्र तादृश तण्डुलकर्मकपाके एतत्कालावच्छिन्नत्वस्य बाधितत्वान्नञर्थाभावे एवान्वयो वाच्यः, स च न सम्भवति, तादृशपाकनिष्ठ मैत्रकर्तृकत्वाभावस्यैतत् कालान वच्छिन्नत्वात् । अवच्छेद्याधिकरणसम्बन्धिन एवावच्छेदकत्वात् । एतत्कालस्यावच्छेद्याधिकरणतादृशपाकानधिकरणत्वात् । कर्तुः प्राधान्यपक्षे मैत्रनिष्ठ कर्तृत्वाभावस्य एतत् कालावच्छिन्नत्वात्तत्र तदन्वयो निर्वाध एवेति क्रियाप्रधानमाख्यातमित्यत्र क्रिया करणम्, "कृञः शचः" इति भावे शः । क्रियायाः प्रधानमिति विग्रहः । तथा च क्रियानिरूपितप्रधानताश्रय इत्यर्थः । स च यत्रास्तीत्यर्थे अर्शाद्यजन्तः क्रियाप्रधानशब्दः । अन्यपदार्थ आख्यातम् । एवञ्च क्रियानिरूपितप्रधानत्वाश्रयोऽर्थात् कृतिरेव वाचकतया तदधिकरणमाख्यातमिति वार्त्तिकार्थः । एवं "भावप्रधानमाख्यातम्" इत्यत्र भाव्यते उत्पाद्यतेऽनेनेति भावः कृतिः, सा प्रधानं यस्य तदाख्यातमिति या वचनार्थः । पश्य मृगो धावतीत्यादिप्रयोगानुपपत्तिः परम् आमन्त्रय, शिष्यो धावति, शिशुः क्रीडति, ताडयेत्यादि प्रयोगानुपपत्तिवत् समाधेया । वस्तुतस्तु नैयायिकमते सर्वत्र प्रथमान्तमुख्यविशेष्यक एव बोध इति न नियमः कैरव्यभियुक्तस्तथा अलिखनात् अनिर्वाहाच्च, किन्तु यथासम्भवं तत्तद्विशेष्यकः । अत एव पचतीत्यादौ प्रथमान्तपदासमभिव्याहारे भावना मुख्यविशेष्यकः, भावाख्यातस्थले क्रियामुख्यविशेष्यक एव बोधः । एवञ्च "इह भवने मैत्रेणैव तैमनं पक्ष्यते" इत्यादावेवकारेण तैमनकर्मकैतद्गृहाधिकरणपाकत्वावच्छेदेन मैत्रान्यकर्तृकत्वाभावो बोध्यताम्, न तु तेमनत्यावच्छेदेनैतद्गृहाधिकरणकमैत्रान्यकर्तृकपाककर्मत्वाभावोऽप्रसिद्धेः" इति taradharafar दीधितिकृतां शङ्का सङ्गच्छते । एवं न कलञ्जं भक्षयेदित्यादौ कञ्जभक्षणं बलवदनिष्टानुबन्धित्वाभाववदिति बोधाङ्गीकरणं मणिकृतां सङ्गच्छते । यत्तु न कलञ्जमित्यादौ बलवदनिष्टाननुबन्धित्वाभाववत्कलञ्जभक्षणानुकूलकृतिमानिति प्रथमान्तार्थमुख्यविशेष्यकबोधलिखनं केषाञ्चित्तदसत् ; तत्र प्रथमान्तपदस्यैवाभावात्, अध्याहारे प्रमाणाभावाच्च । अत एवान्ध आकारां
"
"
For Private And Personal Use Only
१७९