________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनेन्द्रो विजयतेतराम् ।
आगमोद्धारक आचार्यप्रवरश्रीआनन्दसागरसूरीश्वरसद्गुरूभ्यो नमः । कविवर पं० श्रीमानसागरगणिकृतं
शतार्थविवरणम् ।
प्रणम्य परमप्रीत्या पञ्च श्रीपरमेष्ठिनः । परिग्रहारम्भमग्ना इतिश्लोकं विवृण्महे ||१|| प्राचीनार्व्वाचीनाचार्यचक्रचक्रवर्तिभिः श्रीमत्तपागच्छाधिराजैः महामहीपतिवितीर्णविस्तीर्णसन्मानैः श्रीहीरविजयसूरिभिः शतार्थपरीक्षाकृते समापतस्य श्रीयोगशास्त्रद्वितीयप्रकाशस्य द्वादशस्य श्लोकस्य शतार्थीक्रियते । तत्र तावच्चतुर्विंशतिजिना वर्ण्यन्ते ।
परिहारम्भ ! मग्नास्तारयेयुः कथं परान् । स्वयं दरिद्रो न ! परमीश्वरीकर्तुमीश्वरः ||१||
व्याख्या- 'हंभारंभे गो' रितिनाममालावचनात् आ - समन्तात् रम्भा-गोशद्वो यत्र सः आरम्भः गौरित्यर्थः । परिग्रहवत् - परिवारवत् परिग्रहे - प्रतिमापरिकरे वा आरम्भो - गौर्यस्य सः परिग्रहारम्भः, समर्थविशेषणत्वादादिदेव इत्यर्थः । तस्य सम्बोधनं हे परिप्रहारम्भहे आदिदेव ! वृषभलाञ्छनत्वात् । 'इ' इत्यामन्त्रणेऽव्ययः । त्वं परान्-अन्यान् तारय संसारान्निस्तारयेत्यर्थः । परान् किंविशिष्टान् ?
For Private And Personal Use Only