SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीसाधुवर्णनम] भीत्राणं, समाहारे कथं-सुखभीत्राणं 'राङ्क दाने' शतरि रान्-ददत वर्तसे । त्वं किं कुर्वन् ? 'नो बुद्धौ ज्ञानबन्धयो' रितिवचनात् नाज्ञानानि, तेषु परं-प्रधानं श्रुतज्ञानं, यत उक्तं च-'सव्वेसिं नाणाणं सुअनाणं चेव उत्तमं जम्हा' इतिवचनात् ततः सर्वेषु ज्ञानेषु श्रुतज्ञानमेव प्रधानं, ततो नपरं-श्रुतज्ञानं 'इफ-स्मरणे' शतृप्रत्यये यन्-स्मरन् । त्वं पुन: किंवि०? शं-शकारं 'वाङ्क गतिगन्धयो' रितिपाठात् वाति-गच्छति डप्रत्यये श्वः, ईदृशः रीवर्णः, तं कैगैरै शब्दे' इति कायति वदति डप्रत्यये श्वरीकः, ईदृशः ऋवर्णों यस्य स श्वरीकर 'श्रीऋ' इति सिद्धम् । तथा तुमिति वर्णं मीनाति -हिनस्ति क्विपि तुमीः, ईदृशः तथा इः-इकारस्तेन युक्तः श-शकारः, तं वर्णक्रमात् वाति-गच्छति इप्रत्यये श्वः-षकार इत्यर्थः, एवं तुमीश्वः, पिरिति सिद्धं, तेन राजते डप्रत्यये पूर्वपदेन सह कर्मधारये श्वरीकर्तुमीश्वरः-श्रीऋषिरित्यर्थः । त्वं पुनः किंवि० ? पङ्क्तिरथन्यायात् दरिद्रः-अकिञ्चन इत्यर्थः । 'ई' इत्यव्ययः पादपूरणे । 'इ' इत्यामन्त्रणे ॥४३॥ परिग्रहारम्भमग्नास्तारये युः कथं प! रान् । स्वयं दरि द्रो ! नपरमीश्वरी कर्तुमीश्वरः ॥४४।। व्याख्या - 'ई' इत्यामन्त्रणेऽव्ययः । शसयोरेक्यात् स्वःस्वर्गस्य दुः-द्रुमः, तस्य सम्बो० स्व-द्रो-हे कल्पद्रमतुल्य ! मनोवाञ्छितदायित्वात् , कस्याः ? युः-श्रीपृथिव्याः-जगत इत्यर्थः । ई-श्रीः, तया युक्ता या 'ऋ पृथिव्यां देवमातरी 'तिमहीपवचनात # पृथिवी, तयाः युरिति ऋकारान्तत्य षष्ठ्या रूपसिद्धिः । हे For Private And Personal Use Only
SR No.020669
Book TitleShatarth Vivaranam
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy