SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [शतार्थविवरणे तीर्थकरान कर्तु-निर्मातुं ईश्वरोऽसि । त्वं किंवि० ? या-श्रीः, तस्या इनान्-स्वामिनः करोति णिजि क्विपि 'नाम्नो न' इति नलोपे ये इतिसिद्धम् । त्वं पुनः किंवि० ? इ:-कामस्तस्य उ:-शङ्करः, दाहकत्वात् तुर्यव्रतोच्चारणादिना स युः। त्वं पुनः किंवि० ? 'दो दातृ - दानयो' रित्येकाक्षरात् दाः-दातार ईदृशा 'ऋ:- पृथिव्यां देवमातरी 'तिवचनान् ऋ:- पृथिवी, तां यन्ति गच्छन्ति क्विपि रितः-भूमिचारिणः, रा-नरा यस्मात् दरिद्रः । जिनवचनश्रवणादेव नरा दानिनो भवन्तीतिभावः । तं पुनः किंवि०? शसयोरैक्यात् स्वराः-षड्जादयो विद्यन्तेऽस्मिन्निति स्वरी । किं कुर्वन् ? 'परो दूरान्यश्रेष्ठशत्रुषु' इत्यनेकार्थत्वात् परं-दूरं, योजनप्रमाणां भुवं, यन्-गच्छन् , स्वरी-स्वरवान् स्यात् । कोऽर्थः ? दूर गतोऽपि क्षीणो न भवतीत्यर्थः । तत्रापि च तादृश एव श्रूयत इत्यर्थः । कथमिति संभवेऽव्ययः ॥३६॥ जिनेन्द्रवाणी व्यावर्ण्य शासनसुरी वर्णयतिपरिग्रहारम्भमग्नास्तारयेयुः कथं परान् । स्वयं दरिद्रो न परमीश्वरी कर्तुमीश्वरः ॥३७|| व्याख्या-भीमो भीमसेनवत् ईश्वरी-चक्रेश्वरीदेवी, परान्वैरिणः युः-श्रीजगतीतः। तथा शसयोरैक्यात् ई श्रीः, तया युक्तः स्वःस्वर्गः तस्मात् ईस्वः-श्रीस्वर्गात् , परं-दूरं, कर्तु-विधातु, स्वयंआत्मना, न दरिद्रा-समर्थेत्यर्थः । अथवा 'र: तीक्ष्णे वैश्वानरे नर' इति वचनात् नरः अरः-सुर इत्यर्थः, तम्य स्त्री अरी-सुरी शु-शोभना सम्यग्दृष्टित्वेन या अरी सा श्वरी, ई-श्रीः, तया युक्ता श्री ईश्वरी-श्रीसु For Private And Personal Use Only
SR No.020669
Book TitleShatarth Vivaranam
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy