SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीमल्लिजिनवर्णनम् ] त्वं पुनः कि वि० ? अः-कृष्णः, स इवाचरति शतरि अन् , कया ? रया-दीप्त्या, नीलवर्णत्वात् नीलकृष्णयोरक्याच्च । त्वं पुनः किवि ? इ. कामस्तत्र उ:-शङ्करः, सः युः। त्वं पुनः कि वि०? दं-स्त्री, स्त्रीत्वं च स्त्रीरूपावतारत्वात् तथा 'रः तीक्ष्णे वैश्वानरे नरे' इति वचनात् रो नरः तदपत्यं रि:-पुरुषपुत्रः, पुरुषत्व पुरुषप्रभवस्य धर्मस्योपदेशित्वात् , तद्वत् द्रमति-गच्छति डप्रत्यये दरिद्रः । अथवा दं-खी तद्वत् स्त्रीरूपावतारत्वात तथा 'ऋ-पृथिव्यां देवमातरी तिमहीपवचनात् ऋभूमिः, तां एति गच्छति क्विपि रिन् पुरुषः, तद्वत् पुरुषप्रमवधर्मोपदेशित्वात् राजते-शोभते डप्रत्यये दरिद्रः । त्वं पुनः किवि ? 'नो बुद्धौ ज्ञान-बन्धयो' रितिवचनात् नेषु-ज्ञानेषु पं-प्रौढ तत् नपंकेवलज्ञानं, तत्र रमः- रताशोको विद्यतेऽस्येति स नपरमी । कोऽर्थः ? श्रीमल्लिजिनस्याशोकद्रुतले केवलमभूदिति भावः । त्वं पुनः किवि० ? ' रीभ्रम' इतिवचनात् रीभ्रमः-सन्देह इत्यर्थः, तं ईयते-गच्छति क्विपि रीः, न रीः अरीः, शु-शोभनः, अरी श्वरीः केवलीत्यर्थः । चित्रत्वादनुस्वाराभावः । अथवा 'ईश्वरः स्वामिनि शिवे मन्मथे' इत्यनेकार्थवचनात् ईश्वरः-कामो विद्यतेऽस्मिन्निति ईश्वरी, नकारस्य निषेधार्थत्वात् न ईश्वरी-अकामीत्यर्थः । आरम्भं कि वि० ? कस्यात्मनः, थो-भीत्राणं यस्मात् सः कथः, तं कथंआत्मभयरक्षकमित्यर्थः । आरम्भं पुनः किं वि० ? स्वः-स्वीयः । यो वात-यशसोः पुंसी'तिविश्वलोचनतः यो-यशो यस्मात् स स्वयः, तं स्वयं । कामवधे हि श्रीस्थूलभद्रादेरिवात्मीयं यशोपि भवतीति । आरम्भं पुनः किवि० ? परं श्लाघ्यमित्यर्थः ।।२८।। श्रीमल्लिजिनं व्यावर्थ श्रीमुनिसुव्रतजिनं वर्णयति For Private And Personal Use Only
SR No.020669
Book TitleShatarth Vivaranam
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy