SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीप्रशस्तिः । प्रशस्तिः । पाञ्चाली किल पञ्चमीगतिरियं तां सेवितुं येऽभवन् , पञ्च श्रीपरमेष्ठिनः प्रतिदिनं पश्चापि पाण्डोः सुताः । उद्यच्छारदशीतधामधवलात्तेषां प्रसादादियं, सम्पूर्णा समभूच्छतार्थविवृतिर्नानार्थरत्नावली ॥१॥ मेषोन्मेषवियोगाऽभावाद् भुवनेऽत्र सन्ततिः सततम् । वर्तिष्यते यदीया जयति सुधर्मा स गणनेता ||२|| तत्पट्टनिकषपट्टे सुवर्णवर्णैर्यधान्निजामभिधाम् । श्रीहीरविजयसूरिः सूरीणामग्रणीर्जयति ।।३।। तारागणाधिपत्यं श्रयति शशी सोऽपि शार्वरीसमये । शशिगणनाथत्वमहो दिवानिशं श्रयति सैष गुरुः ।।४।। स्वाङ्गसदनेऽध्यमातां स्वगुणानां नित्यमेधमानानाम् । वेश्मान्तरं विदधे येन श्रीविजयसेनमिषात् ।।५।। सिंहस्य सुतः सिंहो भवेदितीवैव तद्गुणान् बिभ्रत् । श्रीहीरविजयसूरि-यंभाद्विजयदानगुरुपट्टे ॥६॥ कुमतगदग्रस्तजनं ज्ञात्वा जिनधर्मसदऽगदं गदितुं । नासिक्याविव नाकात समागतौ यत्कवेषमिषात् ॥७॥ पञ्चश्रीपरमेष्ठिनां धृतिकरं व्यानं दधानौ सदा पञ्चाचारपरायणौ प्रतिदिनं पञ्चाक्षनिग्राहकौ । जायेतां जगतीजनैकजनको सूत्रार्थदुग्धोदधी तो द्वावग्रगपूर्वगामिविजयौ श्रीहीरसेनाभिधौ ।।८।। For Private And Personal Use Only
SR No.020669
Book TitleShatarth Vivaranam
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages120
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy