SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सत्यशासन-परीक्षा [२८___$२८. एवमशरीरत्वे सिद्धे नेश्वरस्तस्य तन्वादीनां कर्ता स्यात् , वितनुकरणस्य तस्य तत्कृतेरयोगात् । तादृशोऽपि निमित्तभावे कर्मणामचेतनत्वेऽपि तन्निमित्तत्वमविप्रतिषिद्धम् , सर्वथा दृष्टान्तव्यतिक्रमात् । यथैव हि कुलालादिसतनुकरणः कुम्भादेः प्रयोजको दृष्टान्तः तनुकरणभुवनादीनामशरीरेन्द्रियेश्वरप्रयोजकत्वकल्पनयाव्यतिक्रम्यते तथा कर्मणामचेतनानामपि तन्निमित्तत्वं कल्पनया बुद्धिमानपि दृष्टान्तो व्यतिक्रम्यतां विशेषाभावात् । २९. स्यान्मतम् – सशरीरस्यापि बुद्धीच्छाप्रयत्नवत एव कुलालादेः कारकप्रयोक्तत्वं दृष्टम् , कुटादिकार्य कर्तुमबुद्धयमानस्य तददर्शनात्, बुद्धिमतोऽपीच्छापाये तदनुपलब्धेः; तदिच्छावतो. ऽपि प्रयत्नाभावे तदनुपलम्भात् ; तद्वद्वितनुकरणस्यापि बुद्धिमतः स्रष्टुमिच्छतः प्रयत्नवतः शश्वदीश्वरस्य समस्तकारकप्रयोक्तृत्वोपपत्तेर्न दृष्टान्तव्यतिक्रमः, सशरीरत्वेतरयोः कारकप्रयुक्ति प्रत्यनङ्गत्वात् । न हि सर्वथा दृष्टान्तदान्तिकयोः साम्यमस्ति, तद्विशेषविरोधादिति; तदयुक्तम्, बुद्ध्यादीनामपि तस्यासंभवात् । ईश्वरो ज्ञानचिकीर्षाप्रयत्नत्रयवान्न भवति; अशरीरत्वात् ; मुक्तात्मवदिति तदभावसिद्धः। अशरीरत्वाविशेषेऽपि सादिमुक्तानामेव बुद्धयादिरहितत्वं न त्वनादिमुक्तस्येश्वरस्येति चेत् ; न, अनादिमुक्तसिद्धः। 'ईश्वरस्याशरीरत्वं सादि अशरीरत्वात् मुक्तात्माऽशरीरत्ववत्' इति तद्वाधकसद्भावात् । अत्राप्यशरीरत्वाविशेषेऽपि मुक्तात्माशरीरत्वमेव सादि न त्वीश्वराशरीरत्वमिति चेत् ; न, अनुपपत्तिकत्वात् ; जगत्कर्तृत्वसर्वज्ञत्वादीनामीश्वरविशेषणानां विवादगोचरत्वे न ततो वैलक्षण्याभिधानानुपपत्तेः । तथापि यदि तथेष्यते तर्हि कार्यत्वाविशेषेऽपि घट-पट-कट-कटक-शकट-मुकुटादीनां बुद्धिमद्धे तुकत्वं न तु मही-महीधर-महीरुहादीनामिति किं नेष्यते। अकृतसमयस्यापि कृतबुद्ध्युत्पादकेभ्यो घटादिभ्यः तदनुत्पादकभुवनादीनां वैलक्षण्यस्यापि संभवात् । एवमशरीरत्वे बुद्धीच्छाप्रयत्नवत्त्वासिद्धेः तदसिद्धौ सकलकारकप्रयोक्तृत्वानुपपत्तेः सूक्तमीश्वरस्तन्वादीनां न कर्तति । ३०. तथापि यदि वैय्यात्यादीश्वरः कर्तेत्यभिधीयते तदा प्राणिनां विचित्रघोरदुःखशतानीश्वर: करोति वा, न वा, यदि न करोति तदा तैः कार्यत्वादिहेतूनां व्यभिचारः। अथ करोतीति मतम् , तदसंभाव्यम् ; इह हि कश्चिदसर्वज्ञो प्रणष्टरागद्वेषो मुनिरन्यो वा साधुः परपीडां न करोति किल, स एव महर्षीणामप्याराध्यः सर्वज्ञो वीतरागद्वेषमोहो भगवान् महेश्वरः प्राणिनामनिमित्तमसह्यविविधोग्रदुःखपरम्परामुत्पाद्य जगत्त्रयं परिपीडयतीति कथमिदं प्रेक्षावद्भिः संभाव्यते । तत्करणे वा तस्य अत्युग्रापूर्वराक्षसत्वमेव, न तु महद्भिः स्तुत्यं महेश्वरत्वमिति तस्य तत्करणमसंभाव्यम् । $ ३१. ननु [ न ] प्राणिनामीश्वरो दुःखमुत्पादयतीति चेत् ; न; दुःखहेतूनामपि पापकर्मणामीश्वरकृतत्वे तस्यैवं दुःखहेतुत्वसिद्धेः, तत्पक्षोपक्षिप्तदोषानुषंगात् । तेषां तदकृतत्वे तनुकरणादेरपि तत्कृतत्वं मा भूत् ; विशेषाभावात् । कर्मभिरीश्वरसाधकहेतूनामनैकान्तिकत्वाच्च; . १. तनुकरणरहितस्य । २. कार्यकर्तृत्वाभावात् । ३. ईश्वरस्य । ४. अग्रहीतसंकेतस्यापि । १. कृतबुद्धयनुत्पादक । ६. ईश्वरस्यैव । ७. कर्मणाम् । 1. -प्रजक-क०, ख० । 2. कारकः प्रयो-क०, ख० । 3. तस्य संभवात् क० । 4. -नादीश्वरो क०, ख० । For Private And Personal Use Only
SR No.020664
Book TitleSatyashasan Pariksha
Original Sutra AuthorN/A
AuthorVidyanandi Acharya, Gokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages163
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy