________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५० ]
बौद्धशासन-परीक्षा 5. ५० तथा च सौगतो हेयोपादेयोपायरहितोऽयमहीकः केवलं विक्रोशतीत्युपेक्षाह एवेति कृतमतिविस्तरेण, दृष्टेष्टविरुद्धत्वात्तन्मतस्यासत्यत्वसिद्धेः ।
दृष्टेष्टेषु . दृप्टेष्टविरोधात् सुगतोदितः । परोक्षेषु तदेकत्वादागमो न प्रमाणताम् ॥ विकल्पाभावतः सर्वहानेबौद्धवचोऽखिलम् । भवेत्प्रलापमात्रत्वान्नावधेयं विपश्चिताम् ।। दृष्टेष्टाभ्यां विरुद्धत्वान्न सत्यं शाक्यशासनम् । न च तेन प्रतिक्षेपः स्याद्वादस्येति निश्चितम् ॥
[इति बौद्धशासनपरीक्षा ]
1. -दश्चेति -क०, ख०।
For Private And Personal Use Only