________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[बौद्धशासन-परीक्षा] ६१. तथा ताथागतशासनमपि दृष्टेष्टविरुद्धम् । एवं हि सर्वभावानां क्षणभङ्गसंगममेवाणशृङ्गारमङ्गीकुर्वाणास्ताथागताः संगिरन्ते-रूपादिपञ्चस्कन्धा एव तत्त्वानि । रूपरसगन्धस्पर्शपरमाणवः सजातीयविजातीयव्यावृत्ताः परस्पराऽसंबद्धा रूपस्कन्धाः । सुखदुःखादयो वेदनास्कन्धाः । सविकल्पकनिर्विकल्पकज्ञानानि विज्ञानस्कन्धाः ।
"जाति-क्रिया-गुण-द्रव्यसंशा पञ्चैव कल्पनाः । • अश्वो याति सितो घण्टिक तदास्येति यथाक्रमम् ॥
[
] इति इत्येतत्कल्पनासहितं सविकल्पकम्, तद्रहितं निर्विकल्पकम् । तथा वृक्षादिनामानि संज्ञास्कन्धाः । ज्ञानपुण्यपापवासनाः संस्कारस्कन्धाः इति । रूपवेदनाविज्ञानसंज्ञासंस्कारा इति पञ्च स्कन्धाः ।
$ २. तेषु च पूर्व-पूर्वचित्तविशेषप्रभवा उत्तरोत्तरचित्तक्षणा उपादानोपादेयरूपेण सजात्युत्तरक्षणं जनयन्त: परस्परासंपृक्ता निरन्वयप्रतिक्षणविशरारवो निरंशाश्च भ्रान्तिवशात् ग्राह्य-ग्राहकसंवेदनाकारत्रयाक्रान्ता विजातीयाऽव्यवधानलघूत्पत्ति-सदृशापरापरोत्पत्तिविप्रलब्धबुद्धः संतानरूपेण वर्तमाना आत्माभिधानं जनयन्ति । तत्रैकत्वप्रत्यभिज्ञानमपि लुनपुनर्जातनखकेशादौ पूर्वापरैकत्वाभावेऽपि दर्शनान्नित्यत्वसमर्थनाय नालमिति त्रिकालानुयाय्ये' कत्वरहिता एव वर्तन्ते; किंतु ज्ञान-वैराग्यभावनातिशयवशादविद्यातृष्णाविगमे निःशक्तिकानामुत्तरोत्तरविज्ञानक्षणमजनयतां निरन्वयविनाशेन संतानोच्छित्तिर्मोक्षः । “प्रदीपनिर्वाणकल्पमात्मनिर्वाणम्' [ ] इति वचनात् । तदुक्तम्- .
9"क्षणादूर्ध्वं न तिष्ठन्ति शरीरेन्द्रियबुद्धयः। दीपार्चिरिव वर्तन्ते स्कन्धाः क्षणविलम्बिताः ॥'
] इति । ३. तस्य च मोक्षम्योपायः काषायचीवरपरिधानशिरस्तुण्डमुण्डनब्रह्मचर्यधारणादयः । तथैव दुःखसमुदयनिरोधमार्गणा' इति चत्वारः पदार्थाश्चतुरार्यसत्याभिधाना मुमुक्षुभिर्ज्ञातव्याः।।
$ ४. तत्र सहज-शारीर-मानसागन्तुकानि दुःखानि । तत्र सहजं क्षुत्तृष्णा-मनोभूभयादिकम् । शारीरं वात-पित्त-पीनसानां वैषम्यसंभूतम् । मानसं धिक्कारावजेच्छाविधातादिजनितम् । आगन्तुकं शीतवातातपाशनिपातादिजनितम् । एतदुःखविशिष्टाश्चित्तक्षणाः संसारिणां दुःखमित्यु
१. घण्टावान् । २. तत्संज्ञकः । ३. आशूत्पत्ति । ४. समुदेति अस्मादिति समुदयः दुःखकारणमिति यावत् । ५. निर्वाणम् । ६. अष्टाङ्गिकः सम्यग्दृष्टयादिः । ७. कफ ।
1.-सम्बन्धा क. 12. सविकल्पनिर्विकल्पकज्ञा-क०, ख० । 3. पितो क०, ख० । 4.-ख्यो यथा-क० । तालाख्यो- ख० । 5. जनयतः क०, ख० । 6. -क्रान्तानि जातीया-क०, ख० । 7. यायैकत्व-क० । 8. रहिताववर्तन्ते, क०, ख० । 9. दूदुवं, ख० । 10. विलम्बिनः ग० ।
For Private And Personal Use Only