SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -२४] चार्वाकशासन परीक्षा १९ $ २१. अथ प्रत्यक्षान्तरं स्वयमात्मानं व्यवस्थापयति पृथिव्यादि 'स्वविषयं च तत्र प्रवर्तनादतो' न तदभावप्रसंग इति मतम् तर्हि सर्वज्ञोऽपि स्वसंवेदनादात्मानं स्वर्गापूर्वादिविषयं च व्यवस्थापयति, इति कथं तदभावसिद्धिः, प्रमाणान्तरस्य च तद्वचनस्य हेतुवादरूपस्याहेतुवादरूपस्य च स एव व्यवस्थापकः स्यादिति कुतस्तदभावैसिद्धिः । सर्वज्ञः स्वपरव्यवस्थापकोऽस्तीत्यत्र किं प्रमाणमिति चेत्; स्वप्रत्यक्षैकप्रमाणवादिनः प्रत्यक्षान्तरं स्वपर विषयमस्तीत्यत्र किं प्रमाणम्, प्रसिद्धिरन्यत्रापि इति न प्रत्यक्षं तदभावावेदकम्, अतिप्रसंगस्य दुःपरिहरत्वात् । तथा $ २२. किं च, सर्वज्ञत्वाभावः प्रत्यक्षेण क्वचित् कदाचित् कस्यचिद् व्यवस्थाप्यते, सर्वत्र सर्वदा सर्वस्य वा ? तत्राद्यपक्षे परस्येष्टापादनम् । द्वितीयपक्षे सर्वत्र सर्वदा सर्वस्य सर्वज्ञत्वाभावं प्रत्यक्षतः संविदन् स्वयं सर्वज्ञः स्यात् । तथा सति व्याहतमेतत् सर्वज्ञाभाववचनं चार्वाकस्य । $ २३. नाप्यनुमानं तदभावसाधकम्, तदनभ्युपगमात् स्वयमनुमानं निराकुर्वन्ननुमानादेव सर्वज्ञाभावं साधयति इति कथमनुन्मत्तः । २४. तदेवं बाधकाभावादस्ति सर्वज्ञः । स च स्याद्वादी भगवनईन्नेवान्ययोगव्यवच्छेदेन निश्वीयते, तस्यैव युक्तिशास्त्राविरुद्धवाक्यत्वात् । अन्येषां न्यायागमविरुद्ध भाषित्वात् । ततस्तदुक्तों धर्मो मोक्षश्च व्यवतिष्ठते । तन्निराकरणे चार्वाकाणां ' प्रमाणाभावस्य प्रतिपादितप्रायत्वात् । प्रलापमात्रस्य च प्रेक्षावतामनादरणीयत्वादिति स्थितं दृष्टेष्टविरुद्धत्वात् चार्वाकमतमसत्यमिति । स्वपराविदिताध्यक्ष चार्वाकाणां वचोऽखिलम् । भवेत् प्रलापमात्रत्वान्नावधेयं विपश्चिताम् ॥ न चार्वाक्रमतं सत्यं दृष्टादृष्टेष्टबाधतः । न च तेन प्रतिक्षेपः स्याद्वाद ( ( ये ) ति निश्चितम् || [ इति चार्वाकशासन-परीक्षा ]. १. अनुमानरूपस्य । २. सर्वशस्य प्रमाणान्तरस्य च । ३. 'अस्मिन् काले अत्र कश्चित्सर्वज्ञो नास्ति' इत्यत्र विवादाभावात् । ४. स्याद्वादितीर्थंकरप्रणीतः । 1. - दिविष- क० । 2. प्रवर्तमानात् क०, ख० । 3. तद्वचस्य ख० । 4. हितवाद, ख० । 5. तदभ्युप- क० 1 6 - वाक्त्वात् ख०, ग० । 7. - माणभाव- क०, ख० । 8. विधिताध्यक्षाणां चाक०, ख० 19 - दश्चेति क०, ख० । For Private And Personal Use Only
SR No.020664
Book TitleSatyashasan Pariksha
Original Sutra AuthorN/A
AuthorVidyanandi Acharya, Gokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages163
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy