SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ चार्वाकशासन-परीक्षा ] [ पूर्वपक्ष: ] $ १. अथानेकार्थवादिशासनानां मध्ये तावच्चार्वाकमतं दृष्टेष्टविरुद्धम् । इदं हि तेषामभिमतम् - इह तावन्न कश्चित्सर्वज्ञः सुगतादिषु संभवति । Acharya Shri Kailassagarsuri Gyanmandir "सुगतो यदि सर्वशः कपिलो नेति का प्रमा । तावुभौ यदि सर्वशौ मतभेदः कथं तयोः ॥" [ तत्त्वसं० श्लो० ३१४९] 'इति वचनात् । $ २. नाप्यागमस्तक वा प्रमाणभूतोऽस्ति परस्परविरोधादिदोषात् ततः कथं धर्मों व्यवतिष्ठेत । तदुक्तम् — "तर्कोऽप्रतिष्ठः श्रुतयो विभिन्नाः, नासौ मुनिर्यस्य वचः प्रमाणम् । धर्मस्य तत्त्वं निहितं गुहायां, महाजनो येन गतः स पन्थाः ॥" ܪ [महाभारत] इति $ ३. इह आप्तस्तु कश्चिद्देवतारूपो गुरु बृहस्पतिरेव प्रत्यक्षप्रसिद्धपृथिव्यादितत्त्वोपदेशात् । तथाहि — पृथिव्यप्तेजोवायव इति चत्वार्येव तत्त्वानि | कायाकारपरिणतेभ्यस्तेभ्यः पिष्टोदकगुडघातकीसंयोगान्मदशक्तिवान् स्नायुलाबूदण्डाङ्गुष्ठाङ्गुलिप्रयत्नाच्छ्रवणरमणीयक्वणितवच्च' तदात्मकं चैतन्यं जायते । तच्च गर्भादिमरणपर्यन्तं 'जीव आत्मा' इत्यादि व्यपदेशभाक् प्रवर्तते । गर्भात् पूर्वकाले मरणादुत्तरकाले च तदभावः । 3 ४. ततः परलोकिनोऽभावः । परलोकिनोऽभावात् परलोकस्याप्यभावः । परलोकाभावे तल्लोकसुखानुभवनार्थमैहिक सुख विमुखा डिम्भका इव दम्भप्रलम्भनाधीना: : शरीरार्थव्ययविधानेन बहुधा मुधावत् क्लेश मश्नुवते । तथैवोक्तम् — " यावज्जीवेत् सुखं जीवेन्नास्ति मृत्योरगोचरः । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥ श्रग्निहोत्रं त्रयो वेदाः त्रिदण्डं भस्मगुण्ठनम् । बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ।। स्त्रीमुद्रां मकरध्वजस्य महतीं निर्वाणसंपत्करीं 4, ये मोहादवधीरयन्ति कुधियो मिथ्यासुखान्वेषिणः । For Private And Personal Use Only १. इलोकोऽयं पूर्वपक्षे विद्यते । २. पृथिव्यादिभ्यः । ३. ऋक्यजुसामाख्याः । ४. उष्टतमिदम् - सर्वदर्शनसं०, चार्वा० पृ० २,५ । 1. प्रयत्नाभ्रम० क० 1 2 काले तद्० क० । 3 - दिनाः क०, ग० । 4 जीवक० क० ।
SR No.020664
Book TitleSatyashasan Pariksha
Original Sutra AuthorN/A
AuthorVidyanandi Acharya, Gokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages163
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy