SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [१६ सत्यशासन-परीक्षा १४. तत्र साधनं नीलादेः संवेदनत्वसमर्थनम् , दूषणं बहिरर्थ त्वनिषेधनं तयोः प्रयोगः प्रकाशनम् । 'नीलादिः संवेदनादव्यतिरिक्तः तद्वद्यत्वात् ; तत्स्वरूपवत्' इत्यादिः 'न जडो नीलादिः प्रतिभास मानत्वात् सुखादिवत्' इत्यादिश्च । १५. कथं पुनरस्य बहिरर्थाभावेऽनुपपत्तिरिति चेत् ; अस्य बहिरर्थविशेषत्वादेव । नहि तदभावे तद्विशेषस्य संभवः, वृक्षाभावे शिंशपाभावस्यैव प्रतिपत्तेः । नासौ तद्विशेष आरोपितरूपत्वादिति चेत् ; न ततः सर्वशक्तिविकलादनिष्टवदिष्टस्याप्यसिद्धः । अनारोपितोऽप्येयं बोध एव न बहिरर्थ इति चेत् ; न, प्रतिपाद्यस्य तद्भावात् । प्रतिपादकस्येति चेत्, कथं ततः प्रतिपाद्यस्य प्रकृतार्थस्य प्रतिपत्तिः अन्यबोधादन्यस्य तदनपपत्तेः । अन्यथा प्रत्यात्मं बुद्धिभेदकल्पनावैफल्योपनिपातात् । तस्मादर्थविशेष एवायमित्युपपन्नमेवातो बहिरर्थव्यवस्थानम् । ततः साधूक्तम्'इष्टविरुद्धं विज्ञानाद्वैतम्' इति । [इति विज्ञानाद्वैतशासनपरीक्षा [चित्रातिशासनपरीक्षा] $ १६. एतेन चित्राद्वैतमपि प्रत्युक्तम् । तन्मतेऽपि बहिरर्थापहवात् । प्रत्यक्षानुमानाभ्यां बहिरर्थस्य च व्यवस्थापितत्वादित्यलं प्रसंगेन । सर्वथा अन्तरङ्गाथैकान्तशासनस्य दृष्टेष्टविरुद्धत्वादसत्यत्वसिद्धेः। प्रमाणाभावतः सर्वं विज्ञानाद्वैतिनां वचः । भवेत्प्रलापमात्रत्वान्नावधेयं विपश्चिताम् ॥ ज्ञानाद्वैतं न सत्यं स्याददृष्टेष्टाभ्यां विरोधतः । न च तेन* प्रतिक्षेपः स्याद्वादस्येति निश्चितम् ॥ [इति चित्राद्वैतशासनपरीक्षा] १. 'साधनदूषणप्रयोगात्' इत्यत्र । २. साधनदूषणप्रयोगादित्यस्य हेतोः । ३. बहिर्थाभावे । ४. बहिरर्थविशेषः । ५. साधनदूषणप्रयोगः । ६. प्रतिपादकबोधरूपात् । __I. -रर्थनि० ख० । 2. भाससमा० ग० । 3. त्यादेश्च ग० । 4. न तेन क० । For Private And Personal Use Only
SR No.020664
Book TitleSatyashasan Pariksha
Original Sutra AuthorN/A
AuthorVidyanandi Acharya, Gokulchandra Jain
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages163
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy