________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
तेषां जातय इति विग्रहः । भावार्थोऽयम् - एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियजातिनामभेदात् पञ्चधा जातिनाम । तत्र एकस्य स्पर्शनेन्द्रियज्ञानस्यावरणक्षयोपशमाद् एकविज्ञानभाज एकेन्द्रियाः, द्वयोः स्पर्शनरसनज्ञानयोरावरणक्षयोपशमाद् द्विविज्ञानभाजो द्वीन्द्रियाः, त्रयाणां स्पर्शनरसनघ्राणज्ञानानामावरणक्षयोपशमात् त्रिविज्ञानभाजस्त्रीन्द्रियाः, चतुर्णां स्पर्शनर - सनघ्राणचक्षुर्ज्ञानानामावरणक्षयोपशमात् चतुर्विज्ञानभाजश्चतुरिन्द्रियाः, पञ्चानां स्पर्शनरसन - प्राणचक्षुः श्रोत्रज्ञानानामावरणक्षयोपशमात् पञ्चविज्ञानभाजः पञ्चेन्द्रियाः । तत एकेन्द्रियाणां जातिनाम एकेन्द्रियजातिनाम, एवं यावत् पञ्चेन्द्रियजातिनाम |
अत्राह - ननु एतेन जातिनाम्ना किं भावेन्द्रियमेकादिकं जन्यते ? उत द्रव्येन्द्रियम् ? आहोखिदे केन्द्रियोऽयमित्यादिव्यपदेशः ? इति त्रयी गतिः । तत्र यद्याद्यः पक्षः स न युक्तः, भावेन्द्रियस्य श्रोत्रादीन्द्रियज्ञानावरणक्षयोपशमजन्यत्वात् " क्षायोपशमिकानीन्द्रियाणि” इति वचनात् । अथ द्रव्येन्द्रियं जन्यते तदप्ययुक्तम्, द्रव्येन्द्रियस्येन्द्रियपर्याप्तिनामोदयजन्यत्वात् । एकेन्द्रियादिव्यपदेशस्त्वेकादीन्द्रियज्ञानावरणक्षयोपशमपर्याप्तिनामभ्यामेव सेत्स्यति किमन्तर्गडुना जातिनाम्ना ?, अत्रोच्यते — आद्यविकल्पयुगलं तावद् अनभ्युपगमादेव निरस्तम् । यत् पुनरुक्तम् 'एकेन्द्रियादिव्यपदेशस्तु' इत्यादि तदयुक्तम्, यत इन्द्रियज्ञानावरणक्षयोपशम इन्द्रियपर्याप्तिश्च यथाक्रमं भावेन्द्रियजनने द्रव्येन्द्रियजनने च कृतार्था कथमेकेन्द्रियादिव्यपदेशनिबन्धनपरिणतिलक्षणं कार्यान्तरं जनयितुमलम् ? न ह्यन्यसाध्यं कार्यमन्यः साधयति, अतिप्रसङ्गात्, तस्माद् एकेन्द्रियादीनां समानजातीयजीवान्तरेण सह समाना बाह्या काचित् परिणतिरेकेन्द्रियादिशब्दवाच्या अवश्यं जातिनामकर्मोदयत एवाभ्युपगन्तव्या । उक्तं च
अव्यभिचारिणा सादृश्येन एकीकृतोऽर्थात्मा जातिः इति ।
तथाहि — बकुलादीनामनुमानादिसिद्धे इन्द्रियपञ्चकक्षयोपशमे सत्यपि पञ्चेन्द्रियशब्दव्यपदेश्यपञ्चेन्द्रियजातिनामकर्मोदयजन्यविशिष्टबाह्यपरिणत्यभावात् न पञ्चेन्द्रियव्यपदेशो भवति । यद्येवं गोतुरगभुजगमातङ्गादिक्रमे सत्यपि पञ्चेन्द्रियव्यपदेश्यस्यापि पर्यायस्य कारणं किञ्चित् कर्माभ्युपगन्तव्यम् ? इति चेद् नैवम्, जातिनामकर्मवैचित्र्यादेव तत्सिद्धेः । न च युक्त्युपन्यास एवाग्रहः कार्यः आगमोपपत्तिगम्यत्वात् तत्त्वस्य । यदवादि — आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणम् ।
अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये ॥ इति ।
उक्तं जातिनाम पञ्चधा २ । तथा औदारिकं च वैक्रियं च आहारकं च तैजसं च कार्मिक चेति द्वन्द्वः। भावार्थोऽयम् — औदारिकवैक्रियाऽऽहारकतैजसकार्मणनामभेदात् पञ्चधा शरीरनाम । तत्र उदारं- प्रधानम्, प्राधान्यं चास्य तीर्थकरगणघरशरीरापेक्षया, ततोऽन्यस्यानुत्तरसुरशरीरस्यापि अनन्तगुणहीनत्वात्, यद्वा उदारं- सातिरेकयोजनसहस्रमानत्वात् शेषशरीरापेक्षया बृहत्प्रमाणम्, बृहत्ता चास्य वैक्रियं प्रति भवधारणीय सहजशरीरापेक्षया द्रष्टव्या, अन्यथोतरवैक्रियं योजनलक्षमानमपि लभ्यते, उदारमेवौदारिकम्, “विनयादिभ्यः " (सि० ७-२१ विद्धि ल० ख० ॥
For Private and Personal Use Only
[ गाथा