________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[गाथा पाकमुपदर्शयन्ती यथायोगमवश्यं सुखदुःखरूपवेदनीयकर्मविपाकोदयनिमित्ते भवतः। तथाहिज्ञानावरणमुपचयोत्कर्षप्राप्तं विपाकतोऽनुभवन् सूक्ष्मसूक्ष्मतरवस्तुविचारासमर्थमात्मानं जानानः खिद्यते भूरिलोकः, ज्ञानावरणकर्मक्षयोपशमपाटवोपेतश्च सूक्ष्मसूक्ष्मतराणि वस्तूनि निजप्रज्ञयाऽभिजानानो बहुजनातिशायिनमात्मानं पश्यन् सुखं वेदयते; तथाऽतिनिबिडदर्शनावरणविपाकोदये जात्यन्धादिरनुभवति दुःखसन्दोहं वचनगोचरातिक्रान्तम् , दर्शनावरणक्षयोपशमपटिष्ठतापरिकरितश्च स्पष्टचक्षुराद्युपेतो यथावद् वस्तुनिकुरम्बं सम्यगवलोकमानो वेदयतेऽमन्दमानन्दसन्दोहम् , तत एतदर्थप्रतिपत्त्यर्थं दर्शनावरणानन्तरं वेदनीयग्रहणम् । वेदनीयं च सुखदुःखे जनयति, अभीष्टानभीष्टविषयसम्बन्धे चावश्यं संसारिणां रागद्वेषौ, तौ च मोहनीयहेतुको, तत एतदर्थप्रतिपत्तये वेदनीयानन्तरं मोहनीयग्रहणम् । मोहनीयमूढाश्च जन्तवो बह्वारम्भपरिग्रहप्रभृतिकर्मादानासक्ता नरकाद्यायुष्कमारचयन्ति, ततो मोहनीयानन्तरमायुग्रहणम् । नरकाद्यायुष्कोदये चावश्यं नरकगत्यादीनि नामान्युदयमायान्ति, तत आयुरनन्तरं नामग्रहणम् । नामकर्मोदये च नियमादुच्चनीचान्यतरगोत्रकर्मविपाकोदयेन भवितव्यम् , अतो नामग्रहणानन्तरं गोत्रग्रहणम् । गोत्रोदये चोच्चैःकुलोत्पन्नस्य प्रायो दानलाभान्तरायादिक्षयो भवति, राजप्रभृतीनां प्राचुर्येण दानलाभादिदर्शनात् ; नीचैःकुलोत्पन्नस्य तु दानलाभान्तरायाद्युदयः, नीचजातीनां तथादर्शनात् ; तत एतदर्थप्रतिपत्त्यर्थ गोत्रानन्तरमन्तरायग्रह्णमिति ॥ ३ ॥ अथ 'यथोद्देशं निर्देशः' इति न्यायात् प्रथमं तावत् पञ्चधा ज्ञानावरणं व्याचिख्यासुराह
मइसुयओहीमणकेवलाणि नाणाणि तत्थ भइनाणं ।
वंजणवग्गहु चउहा, मणनयणविणिंदियचउक्का ॥४॥ इह ज्ञानशब्दस्य प्रत्येकं सम्बन्धाद् मतिज्ञानम् , श्रुतज्ञानम् , अवधिज्ञानम् , “मण ति" पदैकदेशे पदसमुदायोपचारात् मनःपर्थवज्ञानं मनःपर्यायज्ञानं वा, केवलज्ञानम् । तत्र "बुधि मनिंच् ज्ञाने" मननं मतिः, यद्वा मन्यते-इन्द्रियमनोद्वारेण नियतं वस्तु परिच्छिद्यतेऽनयेति मतिः-योग्यदेशावस्थितवस्तुविषय इन्द्रियमनोनिमित्तोऽवगमविशेषः, मतिश्च सा ज्ञानं च मतिज्ञानम् । इदं चाऽऽगमे आभिनिबोधिकज्ञानमुच्यते । ___ यदाह भगवान् देवर्द्धिक्षमाश्रमण:----
नाणं पंचविहं पन्नत्तं, तं जहा-आभिणिबोहियनाणं सुयनाणं ओहिनाणं मणपजवनाणं केवलनाणं । (नन्दी पत्र ६५-१)।
तत्र चायमाभिनिबोधिकज्ञानशब्दार्थः-अभि-इत्याभिमुख्ये, नि-इति नैयत्ये, ततश्चाभिमुखः-वस्तुयोग्यदेशावस्थानापेक्षी नियतः-इन्द्रियमनः समाश्रित्य खखविषयापेक्षी बोधनं बोधोऽभिनिबोधः, स एवाऽऽभिनिबोधिकम् , विनयादेराकृतिगणत्वादिकण्प्रत्ययः, अभिनिबुध्यत इत्यभिनिबोध इति कर्तरि लिहादित्वादच् वा, यद्वाऽभिनिबुध्यते आत्मना स इत्यभिनिबोध इति, कर्मणि घञ् , स एवाऽऽभिनिबोधिकमिति तथैव, आभिनिबोधिकं च तद्
१ ज्ञानं पञ्चविधं प्रज्ञप्तम् , तद्यथा-आमिनिबोधकज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्यवज्ञानं केवलज्ञानम् ॥
For Private and Personal Use Only