SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२-७३] षडशीतिनामा चतुर्थः कर्मग्रन्थः । परिही तिलक्ख सोलस, सहस्स दो य सय सत्तवीसहिया । . कोसतिय अट्ठवीसं, धणुसय तेरंगुलद्धहियं ॥ (बृह० क्षे० गा० ६) इतिगाथाभिहितप्रमाणोपेताः । उक्तं च श्रीमदनुयोगद्वारसूत्रे जहन्नयं संखिज्जयं कित्तिल्लियं होइ ? दो रूवाइं । तेण परं अजहन्नमणुक्कोसयाइं ठाणाइं जाव उक्कोसयसंखिज्जयं न पावइ । उक्कोसयं संखिजयं "कित्तियं होइ ? उक्कोसयस्स संखिज्जयस्स परूवणं करिम्सामि-से जहानामए पल्ले सिया एगं जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साइं सोलस सहस्साइं दोन्नि य सत्तावीसे जोयणसए तिन्नि य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचि विसेसाहियं परिक्खेवेणं ॥ (पत्र २३५-१) ततो जम्बूद्वीपप्रमाणचतुःपल्यप्ररूपणयेदमुत्कृष्टं सङ्ख्यातकं प्ररूपयिष्यत इति भावः ॥७२॥ अथैते चत्वारोऽपि पल्याः किंनामानः ? इत्येतदाह पल्लाऽणवट्ठियसलागपडिसलागमहासलागक्खा । जोयणसहसोगाढा, सवेइयंता ससिहभरिया ॥ ७३ ॥ धान्यपल्य इव पल्याः कल्प्यन्ते, ते च जम्बूद्वीपप्रमाणाः । किंनामानः ? इत्याह--"अणवट्ठिय" इत्यादि । यथोत्तरं वर्धमानखभावतयाऽवस्थितरूपाभावाद् अनवस्थित एवोच्यते । तथेह शलाकाः-एकैकसर्षपप्रक्षेपलक्षणास्ताभिः शलाकाभिर्धियमाणत्वात् पल्योऽपि शलाका । तथा प्रतिशलाकाभिनिष्पन्नत्वात् प्रतिशलाका । महाशलाकाभिनिवृत्तत्वात् महाशलाका । तत एषां द्वन्द्वेऽनवस्थितशलाकाप्रतिशलाकामहाशलाकास्ता इत्थम्भूता आख्याः-संज्ञा येषां तेऽनवस्थितशलाकाप्रतिशलाकामहाशलाकाख्याः । त एव विशिष्यन्ते-योजनसहस्रं तु अवगाढाः । इदमुक्तं भवति-रत्नप्रभायाः पृथिव्याः प्रथमं योजनसहस्रप्रमाणं रत्नकाण्डं भित्त्वा द्वितीये वज्रकाण्डे प्रतिष्ठिता इति । पुनस्त एव विशिप्यन्ते-“सवेइयंत" ति वज्रमय्या अष्टयोजनो. च्छायायाश्चत्वार्यष्टौ द्वादश योजनान्युपरिमध्याधोविस्तृताया जम्बूद्वीपनगरप्राकारकल्पाया जगत्या द्विगव्यूतोच्छूितेन पञ्चधनुःशतविस्तृतेन नानारत्नमयेन जालकटकेन परिक्षिप्ता या उपरि वेदिकेति पद्मवरवेदिकेत्यर्थः, द्विगव्यूतोच्छ्रिता पञ्चधनुःशतविस्तीर्णा गवाक्षहेमकिङ्किणीजालघण्टायुक्ता देवानामासनशयनमोहनविविधक्रीडास्थानमुभयतो वनखण्डवती तस्या अन्तः-पर्यवसानमग्रभाग इति यावद् वेदिकान्तः, ततश्च सह वेदिकान्तेन वर्तन्त इति सवेदिकान्ताः। ते च कथं सर्षपैर्भूताः ? इत्याह---"ससिहभरिय" त्ति सह शिखया-उच्छ्यलक्षणया वर्तन्त इति सशिखाः, ततः सशिखं यथा भवति तथा सर्षपैर्भूताः-पूरिताः सशिखभृताः कर्तव्या इति शेषः । अयमत्रा १ परिधिस्त्रयो लक्षाः षोडश सहस्राणि द्वे च शते सप्तविंशत्यधिके । कोशत्रिकं अष्टाविंशं धनुःशतं त्रयोदशाङ्गुलान्य‘धिकानि ॥ २ जघन्यं सङ्ख्यातकं कियद् भवति ? द्वे रूपे । ततः परमजघन्योत्कृष्टानि स्थानानि यावद् उत्कृष्टसङ्ख्यातकं न प्राप्नोति । उत्कृष्टं सङ्ख्यातकं कियद् भवति? उत्कृष्टस्य सङ्ख्यातकस्य प्ररूपणां करिष्ये-असौ यथानामकः पल्यः स्यात् एकं योजनशतसहस्रम् आयामविष्कम्भाभ्याम् , त्रीणि योजनशतसहस्राणि षोडश सहस्राणि द्वे च सप्तविंशे योजनशते त्रयश्च क्रोशा अष्टाविंशं च धनुःशतं त्रयोदशाङ्गुलानि अर्धाङ्गुलं च किञ्चिद् विशेषाधिकं परिक्षेपेण ॥ ३-४ केवइयं अनुयोगद्वारसूत्रे ॥ क.२६ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy