________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९३
६७-६९] घडशीतिनामा चतुर्थः कर्मग्रन्थः । अमुना पूर्वदर्शितप्रकारेण गत्यादिषु संयोगषट्कचिन्तनलक्षणेन परस्परविरोधाभावेन सम्भविनः पञ्चदश सान्निपातिकभेदाः षष्ठभावविकल्पाः प्ररूपिता इति शेषः । “वीसं असंभविणो" ति विंशतिसङ्ख्याः संयोगा असम्भविनः, प्ररूपणामात्रभावित्वेन न जीवेषु तेषां सम्भवोऽस्तीति ।
ननु षड्रिंशतिभेदाः प्राक् प्रदर्शिताः, इह तु पञ्चदशानां विंशतेश्च मीलने पञ्चत्रिंशत्सङ्ख्या भेदाः प्राप्नुवन्तीति कथं न विरोधः?, अत्रोच्यते-ननु विस्मरणशीलो देवानांप्रियः, यतोऽनन्तरमेवोदितं गत्यादिद्वारेणैव ते चिन्त्यमानाः पञ्चदश भवन्ति, मौला घ्यादिसंयोगास्तु षडेव । तथाहि–एको द्विकसंयोगः, द्वौ द्वौ त्रिकचतुष्कसंयोगौ, एकः पञ्चकसंयोग इति षण्णां विंशत्या मीलने षड्विंशतिसवयैवोपजायत इति नात्र कश्चन विरोध इति ॥ ६८ ॥ . अभिहिताः सप्रभेदा जीवानामौपशमिकादयो भावाः । साम्प्रतमेतानेव कर्मविषये चिन्तयन्नाह
मोहेव समो मीसो, चउघाइसु अट्ठकम्मसु य सेसा ।
धम्माइ पारिणामियभावे खंधा उदइए वि ॥ ६९॥ _ 'मोहे एव' षष्ठीसप्तम्योरथ प्रत्यभेदाद्, यथा वृक्षे शाखा वृक्षस्य शाखा, मोहनीयस्यैव कर्मणः 'शमः' उपशमोऽनुदयावस्था भस्मच्छन्नामेरिव न तु समस्तानां कर्मणाम् । “मीसो चउघाइसु"त्ति 'मिश्रः' क्षयोपशमः, तत्र क्षयः-उदयावस्थस्यात्यन्ताभावस्तेन सहोपशमः-अनुदयावस्था दरविध्यातवह्निवत् क्षयोपशमः, 'चतुर्यु' चतुःसङ्ख्येषु 'घातिषु' ज्ञानादिगुणघातकेषु कर्मखित्युत्तरोक्तमत्रापि सम्बन्धनीयम्, ततो ज्ञानावरणदर्शनावरणमोहनीयान्तरायलक्षणानां घातिकर्मणामेव क्षयोपशमो भवति न त्वघातिकर्मणामिति । 'अष्टकर्मसु' ज्ञानावरणाद्यन्तरायावसानेषु 'चः' पुनरर्थे अष्टकर्मसु पुनः ‘शेषाः' औदयिकक्षायिकपारिणामिकभावा भवन्ति । तत्रोदयः-विपाकानुभवनम् , क्षयः-अत्यन्ताभावः, परिणामः-तेन तेन रूपेण परिणमनमित्यक्षरार्थः । भावार्थस्त्वयम्--- मोहनीयकर्मणः पञ्चापि भावाः प्राप्यन्ते । मोहनीयवर्जितज्ञानावरणदर्शनावरणान्तरायलक्षणानां तु त्रयाणां घातिकर्मणामुदयक्षयक्षयोपशमपरिणामखभावाश्चत्वार एव भावा भवन्ति न पुनरुपशमः । शेषाणां वेदनीयायुर्नामगोत्रस्वरूपाणां चतुर्णामप्यघातिकर्मणामुदयक्षयपरिणामलक्षणास्त्रय एव भावा भवन्ति, न तु क्षयोपशमोपशमाविति ।
प्रतिपादिता जीवेषु तदाश्रितकर्मसु च पञ्चापि भावाः । अधुना तान् अजीवेषु बिभणिषुराह-"धम्माइ” इत्यादि । इह पदैकदेशे पदसमुदायोपचाराद् धर्मास्तिकायः १ अधर्मास्तिकायः २ आकाशास्तिकायः ३ पुद्गलास्तिकायः ४ कालद्रव्यं ५ चेति परिग्रहः । तत्र धारयतिगतिपरिणतजीवपुद्गलान् तत्स्वभावतायामवस्थापयतीति धर्मः, अस्तयश्चेह प्रदेशास्तेषां चीयत इति कायः-सङ्घातोऽस्तिकायः, ततो धर्मश्चासावस्तिकायश्च धर्मास्तिकायः । तथा न धारयतिगतिपरिणतानपि जीवपुद्गलान् तत्खभावतायां नावस्थापयति स्थित्युपष्टम्भकत्वात् तस्येत्यधर्मः शेषं प्राग्वत् । आ-समन्तात् काशते-अवगाहदानतया प्रतिभासत इत्याकाशः, शेषं प्राग्वत् । पूरणगलनधर्माणः पुद्गलाः, पृषोदरादित्वाद् इष्टरूपसिद्धिः, शेषं पूर्ववत् । तथा "कलण सख्याने" कलनं कालः, कल्यते वा-परिच्छिद्यते वस्त्वनेनेति कालः, कलानां वा-समयादिरूपाणां समूहः कालः । आह सामूहिके प्रत्यये नपुंसकलिङ्गेन भवितव्यम् , यथा कापोतं मायूर चेति, [तन्न,]
क. २५
For Private and Personal Use Only