________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६
देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः
[ गाथा
तवः सासादने द्रष्टव्याः । मिश्रे त्रिचत्वारिंशद् बन्धहेतवो भवन्ति, कथम् : इत्याह- 'मिश्र - द्विकम्' औदारिकमिश्रवैक्रियमिश्रलक्षणं "कम्म" त्ति कार्मणशरीरं "अण" ति अनन्तानुबन्धिनस्तैर्विना । इयमत्र भावना -- "न सम्ममिच्छो कुणइ कालं" इति वचनात् सम्यग्मिथ्यादृष्टेः परलोकगमनाभावाद् औदारिकमिश्रवैक्रियमिश्रद्विकं कार्मणं च न सम्भवति, अनन्तानुबन्ध्युदयस्य चास्य निषिद्धत्वाद् अनन्तानुबन्धिचतुष्टयं च नास्ति, अत एतेषु सप्तसु पूर्वोक्तायाः पञ्चा - शतोऽपनीतेषु शेषास्त्रिचत्वारिंशद् बन्धहेतवो मिश्रे भवन्ति । 'अथ' अनन्तरं षट्चत्वारिंशद् वो भवन्ति ॥ ५५ ॥
सदु मिस्सकम्म अजए, अविरइकम्मुरलमीस बिकसाए । मुत्तु गुणचत्त देसे, छवीस साहारदु पमत्ते ॥ ५६ ॥
क : इत्याह-- 'अयते' अविरते, कथम् इत्याह-- " सदुमिस्सकम्म" त्ति द्वयोर्मिश्रयोः समाहारो द्विमिश्रम्, द्विमिश्रं च कार्मणं च द्विमिश्रकार्मणम्, सह द्विमिश्रकार्मणेन वर्तते या त्रिचत्वारिंशत् । इयमत्र भावना अविरतसम्यग्दृष्टेः परलोकगमनसम्भवात् पूर्वापनीतमौदारिकमिश्रवैक्रियमिश्रलक्षणं द्विकं कार्मणं च पूर्वोक्तायां त्रिचत्वारिंशति पुनः प्रक्षिप्यते ततोऽविरते षट्चत्वारिंशद् बन्धहेतवो भवन्ति । तथा 'देशे' देशविरते एकोनचत्वारिंशद् बन्धहेतवो भवन्ति, कथम् ? इत्याह- अविरतिः - सासंयमरूपा कार्मणम् औदारिकमिश्र द्वितीयकषायान्- अप्रत्याख्यानावरणान् मुक्त्वा शेषा एकोनचत्वारिंशदिति । अत्रायमाशयः - विग्रहगतावपर्याप्त कावस्थायां च देशविरतेरभावात् कार्मणौदारिकमिश्रद्वयं न सम्भवति, त्रसासंयमाद् विरतत्वात् साविरतिर्न जाघटीति ।
ननु त्रसासंयमात् सङ्कल्पजाद् एवासौ विरतो न त्वारम्भजादपि तत् कथमसौ त्रसाविरतिः सर्वाऽप्यपनीयते ?, सत्यम्, किन्तु गृहिणामशक्यपरिहारत्वेन सत्यप्यारम्भजा त्रसाविरतिर्न विवक्षितेत्यदोषः । एतच्च बृहच्छत कबृहच्चूर्णिमनुसृत्य लिखितमिति न खमनीषिका परिभावनीया । तथाऽप्रत्याख्यानावरणोदयस्याऽस्य निषिद्धत्वाद् इत्यप्रत्याख्यान वरणचतुष्टयं न घटां प्राञ्चति । तत एते सप्त पूर्वोक्तायाः षट्चत्वारिंशतोऽपनीयन्ते तत एकोनचत्वारिंशद् बन्धहेतवः शेषा देशविरते भवन्ति । तथा षड्विंशतिर्बन्धहेतवः प्रमत्ते भवन्ति । “साहारदु" त्ति सह आहारद्विकेनआहारकाहारकमिश्रलक्षणेन वर्तत इति साहारकद्विका ॥ ५६ ॥
अविर इगार तिकसायवज्ज अपमत्ति मीसदुगरहिया । चउवीस अपुत्र्वे पुण, दुवीस अविउग्वियाहारा ॥ ५७ ॥ त्रसाविरतेर्देशविरतेऽपनयनात् शेषा एकादशाविरतय इह गृह्यन्ते, तृतीयाः कषायास्त्रिकषायाः-प्रत्याख्यानावरणास्तद्वजः - तद्विरहिता साहारकद्विका च सैव एकोनचत्वारिंशत् षड्विंश - तिर्भवति । इदमत्र हृदयम् — प्रमत्तगुणस्थान एकादशधा अविरतिः प्रत्याख्यानावरणचतुष्टयं च न सम्भवति, आहारकद्विकं च सम्भवति, ततः पूर्वोक्ताया एकोनचत्वारिंशतः पञ्चदशकेऽपनीते द्विके च तत्र प्रक्षिप्ते षड्विंशतिर्बन्धहेतवः प्रमत्ते भवन्तीति । तथा अप्रमत्तस्य लब्ध्यनुपजी - बनेनाऽऽहारकमि श्रवैक्रियमिश्रलक्षणमिश्रद्विकरहिता सैव षडंशतिश्चतुर्विंशतिर्बन्धहेतवोऽप्रमत्ते
For Private and Personal Use Only