SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५०-५२] षडशीतिनामा चतुर्थः कर्मग्रन्थः । १८३ अपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहसयोगिकेवलिलक्षणेषु गुणस्थानकेषु शुक्ललेश्या भवति न शेषाः पञ्च । 'अयोगिनः' अयोगिकेवलिनः 'अलेश्याः' अपगतलेश्याः । इह लेश्यानां प्रत्येकमसङ्ख्येयानि लोकाकाशप्रदेशप्रमाणानि अध्यवसायस्थानानि, ततो मन्दाध्यवसायस्थानापेक्षया शुक्ललेश्यादीनामपि मिथ्यादृष्ट्यादौ, कृष्णलेश्यादीनामपि प्रमत्तगुणस्थानकेऽपि सम्भवो न विरुध्यत इति ॥ तदेवमुक्ता गुणस्थानकेषु लेश्याः । सम्प्रति बन्धहेतवो वक्तुमवसरप्राप्ताः, ते च मूलभेदतश्चत्वार उत्तरभेदतश्च सप्तपञ्चाशत् , तानुभयथाऽपि प्रचिकटयिषुराह- "बंधस्स मिच्छ” इत्यादि, 'बन्धस्य' ज्ञानावरणादिकर्मबन्धस्य मूलहेतवश्चत्वारः 'इति' अमुना प्रकारेण भवन्ति । केन प्रकारेण ? इत्याह-'मिथ्यात्वाविरतिकषाययोगाः' तत्र मिथ्यात्वं-विपरीतावबोधखभावम् , अविरतिः-सावद्ययोगेभ्यो निवृत्त्यभावः, कषाययोगाः-प्रामिरूपितशब्दार्थाः । नन्वन्यत्र प्रमादोऽपि बन्धहेतुरभिधीयते, यदवादि मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः । (तत्त्वा० अ० ८ सू० १) इति स कथमिह नोक्तः ? उच्यते-मद्यविषयरूपस्य तस्याविरतावेवान्तर्भावो विवक्षितः । कषायाश्च पृथगेवोक्ताः, वैक्रियारम्भादिसम्भवी तु योगग्रहणेनैव गृहीत इत्यदोष इति ॥५०॥ __ उक्ताश्चत्वारो मूलहेतवः । इदानीमुत्तरभेदान् प्रचिकटयिषुः प्रथमं मिथ्यात्वस्याविरतेश्चोतरमेदानाह अभिगहियमणभिगहियाऽऽभिनिवेसिय संसइयमणाभोगं । पण मिच्छ बार अविरइ, मणकरणानियम छजियवहो ॥५१॥ __ अभिग्रहेण-इदमेव दर्शनं शोभनं नान्यद् इत्येवंरूपेण कुदर्शनविषयेण निवृत्तमाभिग्रहिकम् , यद्वशाद् बोटिकादिकुदर्शनानामन्यतमं गृह्णाति । तद्विपरीतमनाभिग्रहिकम् , यद्वशात् सर्वाण्यपि दर्शनानि शोभनानीत्येवमीषन्माध्यस्थ्यमुपजायते । 'आभिनिवेशिकं' यद् अभिनिवेशेन निवृत्तम् , यथा गोष्ठामाहिलादीनाम् । 'सांशयिकं' यत् संशयेन निर्वृत्तम् , यद्वशाद् भगवदर्हदुपदिष्टेष्वपि जीवाजीवादितत्त्वेषु संशय उपजायते, यथा- न जाने किमिदं भगवदुक्तं धर्मास्तिकायादि सत्यम् ? उतान्यथा ? इति । 'अनाभोग' यद् अनाभोगेन निर्वृत्तम् , तच्चैकेन्द्रियादीनामिति । “पण मिच्छ” त्ति पञ्चप्रकारं मिथ्यात्वं भवतीति । द्वादशप्रकाराऽविरतिः, कथम् ? इत्याह-मनःखान्तं, करणानि-इन्द्रियाणि पञ्च तेषां स्वस्वविषये प्रवर्तमानानामनियमः-अनियन्त्रणम् , तथा षण्णां-पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाणां जीवानां वधः-हिंसेति ॥५१॥ अभिहिता मिथ्यात्वाविरत्युत्तरबन्धहेतवः । सम्प्रति कषाययोगोत्तरबन्धहेतूनाह नव सोल कसाया पनर जोग इय उत्तरा उ सगवन्ना। इगचउपणतिगुणेसुं, चउतिदुइगपञ्चओ बंधो ॥५२॥ स्त्रीवेदपुरुषवेदनपुंसकवेदहास्यरत्यरतिशोकभयजुगुप्सारूपा नव नोकषायाः, ते च कषायसहचरितत्वाद् उपचारेणेह कषाया इत्युक्ताः । षोडश कषायाः' अनन्तानुबन्धिक्रोधादयः । नोकषायकषायखरूपं च सविस्तरं खोपज्ञकर्मविपाकटीकायां निरूपितमिति तत एवावधारणीयम् । For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy