________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७-४९] पडशीतिनामा चतुर्थः कर्मग्रन्थः।
१८१ द्वयोर्दर्शयोः समाहारो द्विदर्श-चक्षुर्दर्शनाचक्षुर्दर्शनरूपमित्येते पञ्चोपयोगा मिथ्यादृष्टिसासादनयोर्भवन्ति, न शेषाः, सम्यक्त्वविरत्यभावात् । तथा 'अयते' अविरतसम्यग्दृष्टौ 'देशे' देशविरते षड्डुपयोगा भवन्ति । तथाहि-"नाणदंसतिगं" ति त्रिकशब्दस्य प्रत्येकमभिसम्बन्धाद् ज्ञानत्रिकं-मतिज्ञानश्रुतज्ञानावधिज्ञानरूपं दर्शत्रिकं-चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनलक्षणमिति, न शेषाः, सर्वविरत्यभावात् । 'ते' पूर्वोक्ता ज्ञानत्रिकदर्शनविकरूपाः षड्डुपयोगाः 'मिश्रे' सम्यग्मिथ्यादृष्टिगुणस्थानके 'मिश्राः' अज्ञानसहिता द्रष्टव्याः, तस्योभयदृष्टिपातित्वात् ; केवलं कदाचित् सम्यक्त्वबाहुल्यतो ज्ञानबाहुल्यम् , कदाचिच्च मिथ्यात्वबाहुल्यतोऽज्ञानबाहुल्यम् , समकक्षतायां तूभयांशसमतेति । अस्मिंश्च गुणस्थानके यद् अवधिदर्शनमुक्तं तत् सैद्धान्तिकमतापेक्षया द्रष्टव्यमित्युक्तं प्राक् । “समणा जयाइ" त्ति “यमं उपरमे" यमनं यतं-सर्वसावधविरतं तद् विद्यते यस्य स यतः-"अभ्रादिभ्यः” (सि० ७-२-४६) इत्यप्रत्ययः प्रमत्तगुणस्थानकवर्ती साधुः, यत आदिर्येषां गुणस्थानकानां तानि यतादीनि-प्रमत्ताप्रमत्तापूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहलक्षणानि सप्त गुणस्थानकानि तेषु पूर्वोक्ता ज्ञानत्रिकदर्शनत्रिकाल्याः षड्डुपयोगाः “समण" त्ति मनःपर्यायज्ञानसहिताः सप्त भवन्तीति, न शेषाः, मिथ्यात्वपातिकर्मक्षयाभावात् । 'केवलद्विकं' केवलज्ञानकेवलदर्शनलक्षणोपयोगद्वयरूपम् 'अन्तद्विके' सयोगिकेवल्ययोगिकेवलिलक्षणचरमगुणस्थानकद्वये भवति, न शेषा दश ज्ञानदर्शनलक्षणाः, तदुच्छेदेनैव केवलज्ञानकेवलदर्शनोत्पत्तेः, “नेट्ठम्मि उ छाउमथिए नाणे" (आ० नि० गा० ५३९) इति वचनात् ॥ ४८॥ तदेवमभिहिता गुणस्थानकेषूपयोगाः । साम्प्रतं यदिह प्रकरणे सूत्राभिमतमपि कार्मग्रन्थिकाभिप्रायानुसरणतो नाधिकृतं तद्दर्शयन्नाह
सासणभावे नाणं, विउव्वगाहारगे उरलमिस्सं।
नेगिंदिसु सासाणो, नेहाहिगयं सुयमयं पि ॥४९॥ 'सासादनभावे' साखादनसम्यग्दृष्टित्वे सति ज्ञानं भवति नाज्ञानमिति 'श्रुतमतमपि' सिद्धान्तसम्मतमपि, तथाहि---
बेइंदिया णं भंते ! किं नाणी अन्नाणी ? गोयमा ! नाणी वि अन्नाणी वि । जे नाणी ते नियमा दुनाणी, आभिणिबोहियनाणी सुयनाणी । जे अन्नाणी ते वि नियमा दुअन्नाणी, तं जहा-मइअन्नाणी सुयअन्नाणी । (भ० श० ८ उ० २ पत्र ३४३-२) __इत्यादिसूत्रे द्वीन्द्रियादीनां ज्ञानित्वमभिहितं तच्च साखादनापेक्षयैव, न शेषसम्यक्त्वापेक्षया, असम्भवात् । उक्तं च प्रज्ञापनाटीकायाम्
"बेइंदियस्स दो नाणा कहं लब्भंति ? भण्णइ-सासायणं पडुच्च तस्सापज्जत्तयस्स दो नाणा लब्भंति ( ) इति ।
१°त् कस्याचित् सम्य° क० ग० घ०॥ २ नष्टे तु छाद्मस्थिके ज्ञाने ॥ ३ द्वीन्द्रिया भदन्त ! किं ज्ञानिनोऽज्ञानिनः ? गौतम ! ज्ञानिनोऽप्यज्ञानिनोऽपि । ये ज्ञानिनस्ते नियमाद्विज्ञानिनः, आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनः। येऽज्ञानिनस्तेऽपि नियमाद् द्यज्ञानिनः, तद्यथा-मत्यज्ञानिनः श्रुताज्ञानिनः ॥ ४ द्वीन्द्रियस्य द्वे ज्ञाने कथं लभ्येते? भण्यते-साखादनं प्रतीत्य तस्यापर्याप्तकस्य द्वे ज्ञाने लभ्येते॥
For Private and Personal Use Only