________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४-४६] षडशीतिनामा चतुर्थः कर्मग्रन्थः ।
१७९ वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सबथोवा जीवा अणाहारगा, आहारगा असंखिज्जगुणा । (प्रज्ञा० पद ३ पत्र १३८-१) . ननु च सिद्धेभ्योऽनन्तगुणाः संसारिजीवाः ते च प्राय आहारकाः तत् कथमसङ्ख्यातगुणा अनाहारकेभ्य आहारकाः ? इति, नैष दोषः, यतः प्रतिसमयमेकैकस्य निगोदस्याऽसङ्ख्येयभागप्रमाणाविग्रहगत्यापन्ना जीवा लभ्यन्ते, ते चानाहारकाः, तत आहारकजीवानामनाहारकजीवापेक्षयाऽसङ्ख्यातगुणत्वमेवेति ॥ ४४ ॥ चिन्तितं गत्यादिमार्गणास्थानेषु स्वस्थानापेक्षयाऽल्पबहुत्वम् । इदानीं गुणस्थानकेषु जीवस्थानानि चिन्तयन्नाह
सव्वजियठाण मिच्छे, सग सासणि पण अपज्ज सन्निदुर्ग।
सम्मे सन्नी दुविहो, सेसेसुं सन्निपजत्तो॥ ४५ ॥ - सर्वाणि जीवस्थानानि-चतुर्दशापि मिथ्यादृष्टिगुणस्थानके भवन्ति, मिथ्यात्वस्य सर्वेषु जीवस्थानकेषु सम्भवात् । तथा “सग" ति सप्त जीवस्थानानि सासादने भवन्ति । तद्यथा---'पञ्चापर्याप्ताः' बादरैकेन्द्रियोऽपर्याप्तः १ द्वीन्द्रियोऽपर्याप्तः २ त्रीन्द्रियोऽपर्याप्तः ३ चतुरिन्द्रियोऽपर्याप्तः ४ असंज्ञिपञ्चेन्द्रियोऽपर्याप्तः ५ 'संज्ञिद्विकम्' संज्ञी अपर्याप्तः ६ पर्याप्तः ७ । अपर्याप्तकाश्चेह करणापर्याप्तका द्रष्टव्याः, न तु लब्ध्यपर्याप्तकाः, तेषु मध्ये साखादनसम्यक्त्वसहितस्योत्पादाभावात् । “सम्मे सन्नी दुविहो" त्ति अविरतसम्यग्दृष्टिगुणस्थानके संज्ञी 'द्विविधः' अपर्याप्तपर्याप्तरूपो द्रष्टव्यः । इहापर्याप्तकः करणापेक्षया ज्ञेयो न तु लब्ध्यपेक्षया, लब्ध्यपर्याप्तमध्येऽविरतसम्यग्दृष्टेरभावात् । 'शेषेषु' मिश्रदेशविरत्यादिगुणस्थानकेषु संज्ञी पर्याप्त इत्येकमेव जीवस्थानकम् , न शेषाणि, तेषां मिश्रभावदेशविरत्यादिप्रतिपत्त्यभावात् । न च पूर्वप्रतिपन्नमिश्रभावोऽ न्येषु जीवस्थानकेषु सङ्क्रामन् लभ्यते, "ने सम्ममिच्छो कुणइ कालं" इति वचनात् ॥ ४५ ॥ । तदेवं गुणस्थानकेषु व्याख्यातानि जीवस्थानकानि । सम्प्रति गुणस्थानकेष्वेव योगान् व्याख्यानयन्नाह
मिच्छदुग अजइ जोगाहारदुगुणा अपुव्वपणगे उ।
मणवइउरलं सविउव्व मीसि सविउव्वदुग देसे ॥ ४६ ॥ मिथ्यादृष्टिद्विकं-मिथ्यादृष्टिसाखादनलक्षणं तत्र 'अयते' अविरतसम्यग्दृष्टौ चेत्येवं गुणस्थानकत्रये संज्ञी पञ्चेन्द्रियोऽपि लभ्यते, तस्य च यथोक्ता आहारकद्विकेन--आहारककाययोगाहारकमिश्रकाययोगलक्षणेन ऊनाः-रहितास्त्रयोदश योगाः सम्भवन्ति । यत् पुनराहारकद्विकं तत् चतुर्दशपूर्विण एव । यदभ्यधायि
आहारदुर्ग जायइ चउदसपुविस्स (पञ्चसं० गा० १२) इति । न च मिथ्यादृष्टिसासादनायतानां चतुर्दशपूर्वाधिगमसम्भव इति । तथा 'अपूर्वपञ्चके' अपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोपशान्तमोहक्षीणमोहलक्षणे नव योगा भवन्ति । तद्यथाचतुर्विधो मनोयोगः ४ चतुर्विधो वाम्योगः ४ औदारिककाययोगः १ इति, न शेषाः, अत्यन्तविशुद्धतया तेषां वैक्रियाहारकद्विकारम्भासम्भवात् , तत्र स्थितानां च खभावत एव श्रेण्यारोहाभावात् ।
१ न सम्यग्मिथ्यादृष्टिः कालं करोति ॥ २ आहारकद्विकं जायते चतुर्दशपूर्विणः ॥
For Private and Personal Use Only