SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७४ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा वणस्सइकाइयाणं अकाइयाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सवत्थोवा तसकाइया, तेउकाइया असंखिजगुणा, पुढविकाइया विसेसाहिया, आउकाइया विसेसाहिया, वाउकाइया विसेसाहिया, अकाइया अणंतगुणा, वणस्सइकाइया अणंतगुणा । (प्रज्ञा० पद ३ पत्र १२२-२) अन्यत्राप्युक्तम् थोवा य तसा तत्तो, तेउ असंखा तओ विसेसहिया । कमसो भूदगवाऊ, अकायहरिया अणंतगुणा ॥ (जीवस० गा० २७६) "अकाय" ति सिद्धाः । तेभ्यो वायुकायिकेभ्यः “वणऽणंत" ति वनस्पतिकायिका अन्तगुणाः, अनन्तलोकाकाशप्रदेशप्रमाणत्वाद् वनस्पतिकायिकानामिति ॥ ३८ ॥ सम्प्रति योगेषु वेदेषु अल्पबहुत्वं प्रचिकटयिषुराह मणवयणकायजोगी, थोवा अस्संखगुण अणंतगुणा । पुरिसा थोवा इत्थी, संखगुणाऽणंतगुण कीवा ॥ ३९॥ मनोयोगिनः स्तोकाः, संज्ञिपञ्चन्द्रियाणामेव मनोयोगित्वात् । तेभ्यो वाग्योगिनोऽसङ्ख्यातगुणाः, द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चेन्द्रियाणां वाग्योगिनां मनोयोगिभ्योऽसङ्ख्यातगुणानां तत्र प्रक्षेपात् । वाग्योगिभ्योऽपि काययोगिनोऽनन्तगुणाः, वनम्पतिकायिकानामप्यनन्तानां तत्र प्रक्षेपादिति । आह च एएसि णं भंते ! जीवाणं सजोगीणं मणजोगीणं वइजोगीणं कायजोगीणं अजोगीण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा मणजोगी, वइजोगी असंखेजगुणा, अजोगी अणंतगुणा, कायजोगी अणंतगुणा, सजोगी विसेसाहिया । (प्रज्ञा० पद ३ पत्र १३४-१) तथा रूयादिभ्यः पुरुषाः स्तोकाः । तेभ्यः स्त्रियः सङ्ख्यातगुणाः । उक्तं च तिगुणा तिरूवअहिया, तिरियाणं इत्थिया मुणेयव्वा । सत्तावीसगुणा पुण, मणुयाणं तदहिया चेव ॥ बत्तीसगुणा बत्तीसरूवअहिया उ तह य देवाणं । देवीओ पन्नता, जिणेहिं जियरागदोसेहिं ॥ (प्रवच० गा० ८८३-८८४) स्त्रीभ्यश्च 'क्लीबाः' नपुंसका अनन्तगुणाः, अनन्तगुणता च वनस्पत्यपेक्षया द्रष्टव्या। उक्तं च १ स्तोकाश्च त्रसास्ततस्तेजस्कायिका असङ्ख्येयगुणास्ततः विशेषाधिकाः । क्रमशो भूदकवायवोऽकायवनस्पतिकायिका अनन्तगुणाः ॥ २ एतेषां भदन्त ! जीवानां सयोगिनां मनोयोगिनां वाग्योगिनां काययोगिनामयोगिनां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा? गौतम! सर्वस्तोका मनोयोगिनः, वाग्योगिनोऽसङ्ख्येयगुणाः, अयोगिनोऽनन्तगुणाः, काययोगिनोऽनन्तगुणाः, सयोगिनो विशेषा. धिकाः॥ ३ त्रिगुणास्त्रिरूपाधिकास्तिरश्चां स्त्रियो ज्ञातव्याः । सप्तविंशतिगुणाः पुनर्मनुजानां तदधिका एव 'सप्तविंशत्यधिका एवेत्यर्थः' ॥ द्वात्रिंशद्गुणा द्वात्रिंशद्रूपाधिकास्तु तथा च देवेभ्यः । देव्यः प्रज्ञप्ता जिनार्जेतरागदोषैः॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy