SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गाथा अस्या अक्षरगमनिका-सङ्ख्थेययोजनप्रमाणा 'सूचिः' एकप्रादेशिकी पतिस्तत्प्रदेशैः-सङ्ख्येययोजनप्रमाणैकप्रादेशिकपतिप्रदेशैरिति यावत् भक्तं प्रतरं व्यन्तरसुरैरपहियते तावद्भागलब्धराशिप्रमाणा व्यन्तरसुरा इत्यर्थः । इयमत्र भावना-सङ्ख्येययोजनप्रमाणसूचिप्रदेशाः किलाऽसत्कल्पमया दश, प्रतरप्रदेशाश्च लक्षम् , ततो दशभिर्भागे हृते लब्धाः सहस्रा दश एतावन्त इत्यर्थः। एघम्' उक्तेन प्रकारेण प्रतिनिकायं व्यन्तराणां भावना कार्या । न चैवं सर्वसमुदायपरिमाणमियमध्याघातप्रसङ्गः, सूचिप्रमाणहेतुयोजनसङ्ख्येयत्वस्य वैचित्र्यादिति ॥ ___ तथा षट्पञ्चाशदधिकशतद्वयाङ्गुलप्रमाणैराकाशप्रदेशसूचिरूपैः खण्डैर्यावद्भिर्यथोक्तखरूपं प्रतरमपहियते तावत्प्रमाणा ज्योतिष्का देवाः । उक्तं च छपन्नदोसयंगुलसूइपएसेहिं भाइयं पयरं । जोइसिएहिं हीरइ, (पञ्चसं० गा० ४९) इति । अत एवोक्तम् - "वाणमंतरेहितो संखेजगुणा जोइसिय" ति । तथा वैमानिकदेवा धनीकृतस्य लोकस्य या ऊर्ध्वाधआयता एकप्रादेशिक्यः श्रेणयोऽङ्गुलमात्रक्षेत्रप्रदेशराशिसम्बन्धितृतीयवर्गमूलघनप्रमाणास्तासां यावान् प्रदेशराशिस्तावत्प्रमाणाः, अतः सकलभवनपत्यादिसमुदायापेक्षया चिन्त्यमाना देवा नारकेभ्योऽसङ्ख्यातगुणा एव । तेभ्योऽपि च देवेभ्यस्तिर्यञ्चोऽनन्तगुणाः, तत्रानन्तसहयोपेतस्य वनस्पतिकायस्य सद्भावात् । उक्तं च--.. एऍसि णं भंते ! नेरइयाणं तिरिक्खजोणियाणं मणुस्साणं देवाणं सिद्धाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा! सबथोवा मणुस्सा, नेरइया असंखेजगुणा, देवा असंखेजगुणा, सिद्धा अणंतगुणा, तिरिक्खजोणिया अणंतगुणा ॥ (प्रज्ञाप० पत्र ११९-२) तथा थोवा नरा नरेहि य, असंखगुणिया हवंति नेरइया । तत्तो सुरा सुरेहि य, सिद्धाऽणंता तओ तिरिया ॥ (जीवस० गा० २७१) इति ॥ ३७॥ उक्तं गतिष्वल्पबहुत्वम् । साम्प्रतमिन्द्रियद्वारे कायद्वारे तदभिधित्सुराह पण चउ ति दु एगिंदी, थोवा तिनि अहिया अणंतगुणा । तस थोव असंखऽग्गी, भूजलनिल अहिय वणणंता ॥ ३८॥ पञ्चेन्द्रियाश्चतुरिन्द्रियादिभ्यः स्तोकाः, तेभ्यश्चतुरिन्द्रिया 'अधिकाः' विशेषाधिकाः, तेभ्यस्त्रीन्द्रिया विशेषाधिकाः, तेभ्यो द्वीन्द्रिया विशेषाधिकाः । तत्र च यद्यपि घनीकृतस्य लोकस्य १ षट्पञ्चाशदधिकद्विशताङ्गुलसूचिप्रदेशैर्भक्तः प्रतरः । ज्योतिष्कैः हियते ॥ २ व्यन्तरेभ्यः सद्धयेयगुणा ज्योतिष्काः॥ ३ एतेषां भदन्त ! नैरयिकाणां तिर्यग्योनिकानां मनुष्याणां देवानां सिद्धानां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? गौतम ! सर्वस्तोका मनुष्याः, नैरयिका असङ्ख्येयगुणाः, देवा असङ्ख्येयगुणाः, सिद्धा अनन्तगुणाः, तिर्यग्योनिका अनन्तगुणाः ॥ ४ स्तोका नरा नरेभ्यश्चासङ्ख्यगुणिता भवन्ति नैरयिकाः। ततः सुराः सुरेभ्यश्च सिद्धा अनन्तास्ततस्तियश्चः॥ For Private and Personal Use Only
SR No.020663
Book TitleSatikachatvar Karmgrantha
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherJain Atmanand Sabha
Publication Year1934
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy